________________
: १२४ :
तत्त्वन्यायविभाकरे
[ सप्तम किरणे
मिथ्यात्वस्य कालचिन्तायामाह - अस्येति । मिध्यात्वस्येत्यर्थः । चतुर्धा हि तस्य कालविभागस्सम्भवति, अनाद्यनन्तानादिसान्तसाद्यनन्त सादिसान्तभेदात् । तत्र भव्यजीवमाश्रित्याहभव्यजीवमाश्रित्येति । जातिभव्येतरभव्यजीव माश्रित्येत्यर्थः, अनादिसान्तेति | अनादिमिध्यादृष्टेर्भव्यजीवस्य सम्यक्त्वावाप्तौ सत्यां मिध्यात्वस्य सान्तत्वादिति भावः । पतितभव्यस्येति । 5 अनादिमिध्यादृष्टेस्सम्यक्त्ववतः केनचिदपि कारणेन पुनः पतितस्य यन्मिथ्यात्वं तस्य तत्सादित्वात् तत्र च जघन्यतोऽन्तर्मुहूर्तं उत्कर्षेणार्हदादिप्रचुराशातनापापबहुलतयाऽपार्धपुद्गलपरावर्त्तं यावदुषित्वा पुनरपि सम्यक्त्वलाभे सान्तत्वाच्च । यस्तु पुनरभव्यस्तस्य मिथ्यात्वमनाद्यनन्तं अनादिकालात्तस्मिन् सद्भावात्, आगामिकालेऽपि च तदभावासम्भवादित्याशयेनाह--अभव्यमाश्रित्येति । त्रयाणामेव भङ्गानां कण्ठतः प्रतिपादनात्साद्यनन्तत्वं तस्य न 10 संभवतीति सूचितम् प्रतिपतितसम्यग्दृष्टीनां मिध्यात्वस्यैव सादित्वेन तेषामवश्यं पुनस्सम्यक्त्वलाभेन मिध्यात्वस्यानन्तत्वासम्भवादिति भावः । एतादृशस्वामिकत्वेन प्रथमगुणस्थानकमपि तावत्कालप्रमाणमवसेयम् । अत्रस्थो जीवो बन्धयोग्यकर्मप्रकृतिषु विंशत्युत्तरशतसंख्याका तीर्थकृत्कर्माहारकद्वयं च विहायान्यासां बन्धकः । उदयप्रायोग्य कर्मप्रकृतीनां द्वाविंशत्युत्तरशतसंख्याकानां मध्यान्मिश्रसम्यक्त्वाऽऽहारकद्विकतीर्थ कृत्कर्मेति पञ्चप्रकृतीना15 समुदयेन शेषाणां वेदयिता, अष्टचत्वारिंशदधिकशतसत्ताकश्च भवति ॥
अथ द्वितीयगुणस्थानस्वरूपं निरूपयति—
उपशमसम्यक्त्व पतितस्यानवाप्तमिध्यात्वस्य सर्वथा यदपरित्यक्तसम्यक्त्वतयाऽवस्थानं तत्सास्वादनगुणस्थानम् । समयादिषडावलिकाकालपर्यन्तमिदम् ॥
20
-उपशमेति । उपशमसम्यक्त्ववान् हि जीवो यदा शान्तानामनन्तानुबन्धिनां क्रोधादीनामन्यतमे उदीर्णे सत्युपशमसम्यक्त्वात्पतितो भवति परन्तु स यावन्मिध्यात्वं नोपयाति तावन्मध्ये पायसभुक्तवान्तस्य कश्चन समयं क्षीरान्नरसस्वादानुवृत्तिरिव तस्य सम्यक्त्वरसावृत्तिर्भवति, एवम्भूततया तस्य यदवस्थानं तत्सास्वादन गुणस्थानं, सम्यक्त्वरसास्वादेन सह वर्त्तत इति सास्वादनस्तस्य गुणस्थानमिति व्युत्पत्तेरित्यर्थः । सासादनगुणस्थानं सासातनगुण25 स्थान चेत्यस्यैव नामान्तरम् । तच्चेत्थमवसेयम्, संसारमहासागरान्तः पतितो जीवो मिथ्यादर्शनमोहनीयनिदानानि यावदनन्तपुद्गलपरावर्त्तानने कशारीरिक मानसिक दुःखलक्षाण्यनुभूय कथमपि
१. सम्यक्त्वगुणनिमित्तकत्वात्तीर्थ करनामबन्धस्याहारकद्वयस्याप्रमत्तयति सम्बन्धिसंयमनिमित्तकत्वाच्चेति
भावः ॥