________________ :126 : तत्त्वन्यायविभाकरे [ सप्तमकिरणे करणेनैव कृतप्रन्थिभेदस्य मिथ्यात्वपुद्गलराशेरकृतमिथ्यात्वमिश्रसम्यक्त्वरूपत्रिपुञ्जस्यानिवृ. त्तिकरणेनोदीर्णे मिथ्यात्वे क्षीणेऽनवाप्तेऽनुदीर्णे चान्तरकरणादन्तर्मुहूर्त्तकालं यावत् सर्वथा मिथ्यात्वावेदकस्यान्तरकरणौपशमिकसम्यक्त्वं भवति / उपशमश्रेणिं प्रपन्नस्य तु मिथ्यात्व स्यानन्तानुबन्धिनाञ्चोपशमे स्वश्रेणिगतमुपशमसम्यक्त्वं भवतीति बोध्यम् / नन्वन्तरकरण5 जन्यमुपशमसम्यक्त्वमुक्तं तत्र किं नामान्तरकरणमिति शङ्कायामुपशमसम्यक्त्वोपयोगिकरणत्रयप्रदर्शनद्वारेण तद्दिदर्शयिषुः प्राहोपशमेति // तत्र किं नाम करणत्रयमित्यत्राह करणत्रयन्तु यथाप्रवृत्त्यपूर्वानिवृत्तिकरणरूपम् / आयुर्वर्जसप्तकर्मण10 स्थितिं पल्योपमासंख्येयभागहीनैककोटीकोटीपरिमाणां विधायाभिन्न पूर्वघनीभूतरागद्वेषात्मकग्रन्धिसमीपगमनानुकूलाध्यवसायो यथाप्रवृत्तिकरणम्। घनीभूतरागद्वेषग्रन्थिभेदनप्रयोजकापूर्वाध्यवसायोऽपूर्वकरणम्। मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्योपरितनी विष्कम्भयि त्वान्तर्मुहूर्तपरिमाणं तत्प्रदेशवेद्यदलिकाभावप्रयोजकाध्यवसायोनिवृ. / त्तिकरणम् / ताहशतत्पदेशवेद्यदलिकाभावोऽन्तरकरणम् // करणेति। यथाप्रवृत्तिकरणमपूर्वकरणमनिवृत्तिकरणञ्चेत्यर्थः / यथाप्रवृत्तिकरणस्वरूपमाह आयुरिति / आयुष उत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमरूपत्वात्सागरोपमकोटीकोट्यन्तर्गतत्वेन तद्भिन्नत्वमुक्तम् , एवञ्च यादृशाध्यवसायविशेषादनाभोगनिवर्तितात् तद्भिन्नानि ज्ञानावरणादिकर्माणि निखिलान्यपि पृथक्पृथक्पल्योपमासंख्यातभागहीनैकसागरोपमकोटीan कोटीस्थितिकानि भवन्ति, ततश्च कर्कशकर्मपटलापहस्तितवीर्यविशेषैरसुमद्भिः कर्मपरिणाम जनितो दुर्भेदोऽभिन्नपूर्वो धनरागद्वेषरूपो ग्रन्थिः प्राप्यते तादृशाध्यवसायविशेषो यथाप्रवृत्तिकरणमित्यर्थः / अधिकारी चास्य तथाभव्यत्वपरिपाकी किञ्चिन्न्यूनापार्धपुद्गलपरावविशेषसंसारश्शुक्लपाक्षिकः, कृष्णपाक्षिकोऽभव्यो वा / आद्यो ग्रन्थिभेदं विधाय सम्यक्त्वं प्राप्नोति। द्वितीयस्त्वकृत्वा तद्भेदं पुनः परावर्त्तते / अस्यैवाथाप्रवृत्तकरणमपूर्वप्रवृत्तकरणमिति च नामान्तरम् / ग्रन्थि समतिक्रामतो यत्करणं तदाह-घनीभूतेति / ये समुदश्चितादभ्रदुर्वार 1. अनादिकालादारभ्य यावदन्थिस्थानं तावत्प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदेव भावात् , अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणात् / ग्रन्धि समतिकामतोऽपूर्वकरणं, प्राक्तनाद्विशुद्धतराध्यवसायरूपेण तेनैव प्रन्थेर्मेदात् / अभिमुखसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति तत एवातिशुद्धतमाध्यवसायादनन्तरं सम्यक्त्वलाभात् //