________________
10
गुणस्थानानि ]
म्यायप्रकाशसमलवृते । कानामसंभवात् , योगत्रयस्य परिस्पन्दस्वभावत्वाच्च, किन्तु वर्षभनाराचसंहननभाजां पराक्रमविशिष्टानामेव तत्सामर्थ्यसंभवः, तथा च कथं सर्वेषां संवरसम्भव इत्याशङ्कायामाह स पुनरिति । नहि यावदाश्रवद्वारनिरोधस्यैव संवररूपत्वं ब्रूमो येनोक्तदोषः स्यादपि तु यत्किञ्चिदास्रवद्वारनिरोधोऽपि संवर एव, स एव देशसंवर उच्यते, सकलाश्रवद्वारनिरोधस्तु सर्वसंवरः, स च पूर्णशक्तिकानामेव भवति, देशसंवरस्तु योगत्रयस्य परिस्पन्दस्वभावत्वेऽपि 5 तत्त्वज्ञानां संसारपारावारपारजिगमिषूणां सामायिकादिचारित्रभाजां सम्भवत्येवेति भावः ॥ ___ तत्र ज्ञानदर्शनचारित्रात्मकात्मगुणानां शुद्ध्यशुद्धिप्रकर्षाप्रकर्षाभ्यां वैचित्र्यादेशसंवरं गुणप्रकर्षोदितारतम्यापेक्षया विभावयति
देशसंवरस्त्रयोदशगुणस्थानं यावद्भवति। सर्वसंवरस्त्वन्तिमगुणस्थान एव, निखिलाश्रवाणां निरुद्धत्वात् । इतरत्र तु न तथा ॥
देशसंवर इति । निखिलाश्रवनिरोधरूपसर्वसंवरस्य त्रयोदशगुणस्थानेष्वसम्भवादाहसर्वसंवरस्त्विति । अन्तिमेति । चतुर्दशेत्यर्थः । हेतुमाह निखिलेति । प्रथमादिगुणस्थानेषु कुतो नेत्यवाहेतरत्रेति, त्रयोदशसु गुणस्थानेष्वित्यर्थः । तथेति सर्वाश्रवाणां निरोध इत्यर्थः ।
तत्र किमिदं गुणस्थानं, कतिविधश्चेत्यत्र प्रथमं विभागमुक्त्वा ततो गुणस्थानस्वरूपमाह
तत्र मिथ्यात्वसास्वादन मिश्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणा- 1 निवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगिभेदाच्चतुदशविधानि गुणस्थानानि ॥
तत्रेति । मिथ्यात्वं सास्वादनं मिश्रमविरतं देशविरतं प्रमत्तमप्रमत्तमपूर्वकरणमनिवत्तिकरणं सूक्ष्मसंपरायमुपशान्तमोहं क्षीणमोहं सयोग्ययोगि, चेत्येतेषां द्वन्द्वः ततो भेदशब्देन षष्ठीतत्पुरुषसमासः । मिथ्यादर्शनोदयप्रयुक्तं मिथ्यादृष्टिगुणस्थानम् । मिथ्यादर्शनो- 2 दयाभावकालीनानन्तानुबन्धिकषायोदयप्रयुक्तं सास्वादनगुंणस्थानम् । सम्यमिथ्यात्वोदयप्रयुक्तं मिश्रगुणस्थानम् । सम्यक्त्वसमानाधिकरणचारित्रमोहोदयप्रयुक्तमविरतसम्यग्दृष्टिगुणस्थानम् । प्राणीन्द्रियविषयविरत्यविरतिपरिणामो देशविरतगुणस्थानम् । संयतस्य प्रमादवशेन किश्चित्प्रस्खलितचारित्रपरिणामः प्रमत्तसंयतगुणस्थानम् । संयतस्य प्रमादविरहेणाविचलितसंयमवृत्तिरप्रमत्तसंयतगुणस्थानम् । उपशमकक्षपकोपचारसमानकालीनापूर्वकरणपरि-2 णामोऽपूर्वकरणगुणस्थानम् । स्थूलभावेनोपशमक्षयसमकालीनानिवृत्तिपरिणामोऽनिवृत्तिकर