________________
: १२२ :
तस्वन्यायविभाकरे
[ सप्तम किरणे
णगुणस्थानम् । सूक्ष्मभावेन कषायोपशमक्षयपरिणामः सूक्ष्म सम्पराय गुणस्थानम् । सर्वमोहोपशमप्रयुक्तमुपशान्तमोहगुणस्थानम् । सर्वमोहक्षयप्रयुक्तं क्षीणमोहगुणस्थानम् । योगकालीनघातिकर्मक्षयोदितज्ञानाद्यतिशयस्सयोगिगुणस्थानम् । योगविरहकालीन ज्ञानाद्यतिशयोऽयोगिगुणस्थानमिति चतुर्दशविधं गुणस्थानमिति भावः ॥
गुणस्थानस्वरूपमाह -
ज्ञानदर्शनचारित्रात्मकानां जीवगुणानां यथायोगं शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृत स्वरूपभेदा गुणस्थानानि ॥
5
ज्ञानदर्शनेति । गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थीयते अस्मिन्निति स्थानं ज्ञानादीनामेव शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानमिति 10 गुणस्थानशब्दार्थबोधकमिदं मूलमिति बोध्यम् । यत्र यत्रापूर्वगुणाविर्भावस्तत्तद्गुणस्थानमिति भावार्थः । एतानि भव्यजीवानां निःश्रेणिरिव सिद्धिसौधमारुरुक्षूणां गुणागुणान्तरप्राप्तिरूपाणि विश्रामधामानि चतुर्दश संख्याकानि ॥
अथ प्रथम गुणस्थानं वक्ति
मिथ्यात्वगुणस्थानञ्च व्यक्ताव्यक्तभेदेन द्विविधम् । कुदेवकुगुरुकु 15 धर्मान्यतमस्मिन् देवगुरुधर्मबुद्धिर्व्यक्तमिथ्यात्वम् । इदञ्च संज्ञिपश्चेन्द्रि याणामेव ॥
मिथ्यात्वगुणेति । मिथ्यात्वं व्यक्ताव्यक्तभेदभिन्नं विपर्यस्तदृष्टिरूपं, तास्थ्यात्तद्व्यपदेश इति न्यायेन तद्योगाज्जीवोऽपि मिध्यात्वं अर्शाद्यजन्तेन वा मिध्यात्वः, मिध्यात्ववानित्यर्थः । तस्य यो गुणानां ज्ञानादीनां शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः स्वरूपविशेषः 20 तदात्मकं स्थानं मिध्यात्वगुणस्थानमित्यर्थः । अस्य संज्ञिपञ्चेन्द्रियतद्भिन्नजीवसम्बन्धित्वेन द्वैविध्य मित्याशयेनाह - व्यक्ताव्यक्तभेदेनेति । व्यक्ताव्यक्तहेतुनेत्यर्थः । तथा च व्यक्तमिध्यात्ववतोऽव्यक्तमिध्यात्ववतश्चेति तद्विविधमिति भावः । तत्र किं व्यक्तमिध्यात्वं तदाह-कुदेवेति । देवगुरुधर्माभासरूपेषु देवगुरुधर्मबुद्धिरित्यर्थः तेन ययेषां कुत्सितत्वं तर्हि कथं देवगुरुधर्मशब्दप्रयोग इति शङ्का परास्ता । उपलक्षणमेतत् तेन जिनोपदिष्टजीवादिपदार्थेषु 25 अश्रद्धा मिथ्या श्रद्धा विपरीतप्ररूपणा संशयकरणमनादरश्च गृह्यन्ते । तथाऽधर्मधर्मोन्मार्गमार्गाजीवजीवासाधुसाध्वमूर्त्तमूर्त्तेषु दशसु धर्माधर्ममार्गोन्मार्गजीवाजीव साध्वसाधुमूर्त्तामू
संज्ञानां, अभिग्रहिकानाभिप्रहिकाभिनिवेशिक सांशयिकानाश्च मिध्यात्वानां ग्रहणम् ।