________________
- तत्वन्यायविमाकरे
(सक्षमरिने भानां सपरिकराणां निग्रहात्संवरावाप्तिः । सत्यत्यागाकिश्चन्यब्रह्मचर्याणि चारित्रानुयायोनि । संयमेष्वपि सप्तदशप्रकारेषु केचिद् व्रतान्तःपातिनः केचिच्चोत्तरगुणान्तर्भूताः । तपस्तूत्तरगुणान्तःपात्येव । संवृण्वतो हेतुभूता भावना अपि उत्तरगुणानुयायिन्यः । यथास्वमापतिता परीषहा अपि सम्यक्सहनेन संवरहेतवः । हिंसाऽसत्यादीनां तत्संश्लेषविशेषाहितकलुषस्य 5 कर्मास्रवनिमित्तत्वातन्निरोधे सति विरतस्य कर्म न निमित्ततामापतति । आधाकर्मादिपरि. भोगनिमित्तश्च कर्मास्रवणं हिंसादिपरित्यागे नैव भवतीति समित्यादयस्संवरहेतवः ।। समित्यादिजन्यकर्मनिरोधस्य संवररूपत्वे किमात्मकोऽयमित्यत्राह
सोऽयमात्मपरिणामो निवृत्तिरूपः॥ सोऽयमिति | समित्यादिजन्यसंवरोऽयमित्यर्थः । कर्मोपादानहेतुभूतपरिणामामावस्य 10 संवररूपत्वेन परिणामनिवृत्त्यात्मा जीवस्य परिणामविशेषोऽयं संवर इति भावः ।। अस्यापि द्रव्यभावभेदतो द्वैविध्यमादर्शयति
कर्मपुद्गलादानविच्छेदो द्रव्यसंवरः॥ . कर्मपदलेति । संसारकारणस्य कर्मपुद्गलस्य यदादानं-ग्रहणं तद्विच्छेदे द्रव्यात्मककर्म। पुद्गलानां संवरणरूपत्वाद्र्व्यसंवर इति भावः ॥ 15- भावसंवरपूर्वकत्वादस्य भावसंवरमाह
भवहेतुक्रियात्यागस्तन्निरोधे विशुद्धाध्यवसायो वा भावसंवरः । स पुनर्द्विविधो देशसर्वभेदात् ।। .... भवहेविति । भवस्संसारः, आत्मनो गत्यन्तरप्राप्तिस्तद्धेतुभूता ये आत्मनः क्रियावि
शेषास्तेषां निवृत्तिः, तन्निवृत्तौ जीवस्य शुद्धशुद्धतरशुद्धतमा अध्यवसायास्तेऽपि परिणामon निवृत्तिरूपत्वाद्भावसंवरा इति भावः । ननु संवरो निखिलावद्वारनिरोधात्मकः, सकला
अवच्छिद्राणाञ्च गोपनेच्छा न सर्वेषां सम्भवति, अखिलपरिस्पन्दनिराकरणस्याल्पशक्ति
१. प्राणातिपातादिभ्य आश्रवद्वारेभ्यो मनोवाक्कायैर्यावज्जीवं तदकरणीयत्वादिपरिणाम इति भावः । स्थूलदर्शिनो हि समित्यादिमन्तं मुनिमुपलभ्य संवृतोऽयमिति व्यवहरन्ति, तस्मादयं व्यवहारसंवरः । नैश्चयिक संवरनिमित्तत्वोपचारेण संवरतत्त्वं व्यपदिश्यते, अत एव समित्यादयोऽपि पञ्चदशद्वादशद्वाविंशतिपञ्चभेदास्समुच्चयेन सप्तपञ्चाशद्विधा व्यवहारसंवरा उच्यन्ते। नैश्चयिकसंवरस्तु समुच्छिन्नक्रियध्यानसहकृतस्य भवति वदनन्तरमेव मुक्तिफलसिद्धेरिति ॥