SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सामुदायिकी ] न्यायप्रकाशसमलते . पराऽऽचरितेति । परैराचरितानामप्रकाशनीयानां सावद्यानां प्रकाशकरणमित्यर्थः। जीवानामसद्भिर्गुणैरीदृशस्त्वं तादृशस्त्वमित्येवं वर्णनं, अजीवानां वेदृशमेतदिति प्रतारणबुद्धया भणनमित्यपि विदारणिकी । षष्ठगुणस्थानं यावदसौ ॥ अनाभोगप्रत्ययिकी निरूपयतिअनवेक्षितासंमार्जितप्रदेशे शरीरोपकरणनिक्षेपोऽनाभोगप्रत्ययिकी॥ 5 अनवेक्षितेति । अनवलोकिते रजोहरणेनाप्रमार्जिते देशे शरीराणां गमनागमनोल्लकनादिभिरुपकरणानामुपध्यादीनाश्च निक्षेपणं स्थापनमित्यर्थः । आभोग उपयोगस्तद्विपरीवोऽनाभोगस्तेनोपलक्षिता क्रियाऽप्यनाभोगा न विद्यते वाऽऽभोगो यस्यां सा अनाभोगा क्रिया, आद्वादशमसौ ॥ अनवकाङ्क्षप्रत्ययिकीमाह- . 10 जिनोदितकर्त्तव्यविधिषु प्रमादादनादरकरणमनवकाङ्क्षप्रत्ययिकी ॥ जिनोदितेति । अवकाङ्क्षा स्वपरयोरपेक्षणं सा न भवतीत्यनवकाला सा प्रत्ययः कारणं यस्यास्साऽनवकाङ्क्षप्रत्यया सैवानवकाङ्कप्रत्ययिकी, जिनोक्तकर्त्तव्येषु विधिषु प्रमादादिहपरलोकापेक्षयाऽनादरकरणमित्यर्थः । प्रमादप्रयुक्तजिनविहितकर्त्तव्यविधिविषयकानादरक्रियात्वं लक्षणार्थः । इहलोके परलोके च यानि विरुद्धानि तानि यो भजते तस्यापीयं क्रिया कथि- 15 तेति बोध्यम् । षष्ठं यावदियम् ॥ प्रायोगिकीमाचष्टे आर्तरौद्रध्यानानुकूला तीर्थकृद्विगतिभाषणात्मिका प्रमादगमनात्मिका च क्रिया प्रायोगिकी ॥ आर्तेति । प्रयोगस्य-धावनवल्गनादिकायव्यापारहिंस्रपरुषानृतभाषणादिवाग्व्यापा- 20 राभिद्रोहेाभिमानादिमनोव्यापाररूपस्य करणं प्रायोगिकी । आर्त्तरौद्रध्यानानुकूलेति मनोव्यापारः, तीर्थकृद्विगर्हितभाषणात्मिकेति वाग्व्यापारः, प्रमादगमनात्मिकेति कायव्या-: पारः सूचितः। आपञ्चममियम् ॥ सामुदायिकी निरूपयति इन्द्रियस्य देशोपघातकारिसर्वोपघातकार्यन्यतररूपा क्रिया सामु- 25 दायिकी॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy