SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ : ११६ : 'तत्त्वन्यायविभाकरे [ षष्ठकिरणे भ्रातृपुत्र शिष्यादौ, अजीवे स्वप्रतिमादौ समन्ततः सर्वदिग्भ्य आगत्य स्तुतिका रकलोकैः स्तूयमाने या तुष्टिः प्रमोदः सा पुनः सामन्तोपनिपातिकीत्यर्थः । समन्तात्सर्वत उपनिपतनमुपनिपात आगमनं ख्यादीनां संपात्यसत्त्वानां वा यत्र देशे भोजनादौ वा स समन्तोपनिपातस्तत्र भवा क्रिया सामन्तोपनिपातिकी । आपश्चममेषा ॥ 5 नैःशस्त्रिकी लक्षयति `यन्त्रादिकरणकजलनिस्सारणधनुरादिकरणकशरादिमोचनान्यतर रूपा क्रिया नै:शस्त्रिकी ॥ यन्त्रादीति । राजाद्यनुज्ञया यन्त्रादिद्वारा कूपादिभ्यो जलादीनां निष्कासनं धनुरादि द्वारा वा शरादीनां मोचनमित्यर्थः । मनुष्यादीनामिष्टकाशकलादीनाञ्च यन्त्रादिभिः कोट्टा10 दिरक्षार्थादिविधीयमानतथाविधदार्वादिनिष्पादितैर्गोफणादिभिश्च निसर्जनं मोचनं नै:शस्त्रिकी सृष्टिकीत्यपरनाम्नी क्रियेत्यर्थः । आपञ्चमं भवत्येषा ॥ स्वाहस्तिकीमाह— सेवकयोग्यकर्मणां क्रोधादिना स्वेनैव करणं स्वाहस्तिकी ॥ सेवक योग्येति । क्रोधादिना गाढाभिमानादिनाऽन्यपुरुष प्रयत्ननिर्वक्रियायाः स्वेनैव 15 करणम्, जीवाजीवाभ्यां जीवस्य मारणं, स्वहस्तेन जीवाजीवयोस्ताडनं वा, स्वाहस्तिकी - त्यर्थः । आपचममेषा ॥ आज्ञापनिकीमाचष्टे अर्हदाज्ञोलङ्घनेन जीवादिपदार्थनिरूपणजीवाजीवान्यतरविषयकसावद्याज्ञाप्रयोजक क्रियान्यतररूपाऽऽज्ञापनिकी ॥ 20 25 अर्हदिति । भगवदत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषया जीवादिपदार्थानां निरूपणम्, जीवस्य 1 वाजीवस्य वा सावद्येष्वाज्ञापनम् । अर्हत्प्रणीताज्ञानिरपेक्षस्वातंत्र्यप्रयुक्तपदार्थनिरूपणजीवाजीवान्यतरविषयक सावद्याज्ञापनान्यतरत्वे सति क्रियात्वं लक्षणम् । अस्या एव च नयनक्रिया आनयनिकीति च नामान्तरम् । पश्चमगुणस्थानं यावदेषा । आद्यपक्षे तु प्रथममेव ॥ विदारणिकीमाह - पराssवरिताप्रकाशनीयसावद्यप्रकाशकरणं विदारणिकी ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy