SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सामन्तोपनिपातिकी ] न्यायप्रकाशसमलङ्कृते : ११५: ख्यानिकी । जीषः प्राणी, अजीवो जीवेतरस्तौ विषयौ यस्याः सा, विरत्यभावोऽप्रत्याख्यातपापकर्मणस्तदनुकला क्रियाऽप्रत्याख्यानिकीत्यर्थः । संयमघातिकर्मोदयवशान्निवृत्त्यभावानुकूलक्रियेति भावः । चतुर्थगुणस्थानं यावदेषा ।। दृष्टिकी निरूपयतिप्रमादिनो जीवाजीवविषयदर्शनादरात्मिका क्रिया दृष्टिकी॥ 5 प्रमादिन इति । दृष्टिरेव दृष्टिकी, रागादिकलुषितस्य जीवाजीवावलोकनम् । जीवाजीवास्तुरङ्गस्यन्दनप्रभृतयस्तद्विषयकं यद्दर्शनं तत्रादरात्मिका प्रमादिनः क्रियेत्यर्थः । प्रमादिन इतिपदेनाप्रमादिकर्तकदर्शनादरस्य व्युदासः, तथा च प्रमादप्रयुक्तजीवाजीवविषयकदर्शनादरक्रियात्वं लक्षणम् । न चेन्द्रियाश्रवे गतार्थत्वादस्याः पृथग्ग्रहणं निरर्थकमिति वाच्यम् , पूर्वत्रेन्द्रियविज्ञानग्रहणात् , इह तु तत्पूर्वकपरिस्पन्दग्रहणाददोषात् । षष्ठगुण- 10 स्थानं यावदसौ ॥ स्पृष्टिकीमभिदधाति सदोषस्य जीवाजीवविषयकं स्पर्शनं स्पृष्टिकी ॥ सदोषस्येति । प्रमादिन इत्यर्थः । रागद्वेषमोहाकुलितचेतसो योषिदाद्यङ्गस्पर्शनक्रियेत्यर्थः । दोषप्रयुक्तजीवाजीवसम्बन्धिस्पर्शनक्रियात्वं लक्षणम् । दोषप्रयुक्तत्वविशेषकृत्यं 15 प्राग्वत् । आषष्ठमसौ॥ प्रातीत्यिकीमाख्यातिप्रमादात् प्राक्स्वीकृतपापोपादानकारणजन्यक्रिया प्रातीत्यिकी ॥ प्रमादादिति । प्रतीत्य पूर्वपापोपादानकारणमधिकरणमाश्रित्य निष्पन्ना क्रिया । प्रमादप्रयुक्तप्राक्स्वीकृतपापोपादानकारणजन्यक्रियात्वं लक्षणम् । आपञ्चममियम् ॥ .. सामन्तोपनिपातिकीमाह- -- कारुण्यवीरबीभत्सादिरसप्रयोक्तृणां प्रेक्षकाणाश्च सानुरागिणां नाव्यादिजन्या क्रिया सामन्तोपनिपातिकी ।। कारुण्येति । नैकविधनाटकादिषु कारुण्यादिरसप्रयोक्तृणां नाट्यादिकर्तृणां, अनुरागेण प्रेक्षकाणाञ्च नाट्यादिजन्या क्रिया, स्त्रीपुरुषपशुसम्पातदेशेऽन्तमलोत्सर्गकरणं वा, स्वकीये 2
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy