SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ : ११८ : तत्वन्यायविभाकरे [ षष्ठकिरणे इन्द्रियस्येति । इन्द्रियसम्बन्धिदेशविघातकारि सर्वविघातकारिक्रियात्वं लक्षणम् । अस्याः समादानक्रियेत्यपि नामान्तरम् । यावत्पञ्चम गुणस्थानमेषा ॥ प्रेमप्रत्ययिक लक्षयति पररागोदयहेतुः क्रिया प्रेमप्रत्ययिकी ।। 5 पररागेति । येन वाग्व्यापारेण परस्य रागोदयस्सा क्रियेत्यर्थः, प्रेमोत्पादकवाणीव्यवहारो वा प्रेमप्रत्ययिकी क्रिया । षष्ठगुणस्थानं यावदियम् ॥ द्वेषप्रत्ययिकीमभिधत्ते 10 क्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी ॥ क्रोधेति । स्वस्य परस्य वा क्रोधमानयोरुत्पादिका क्रियेत्यर्थः । आषष्ठं भवत्येषा ॥ ईर्यापथिकीमाख्याति— अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेर्यापथिकी । इति क्रियापञ्चविंशतिः ॥ समाप्तमाश्रवतत्त्वम् ॥ अप्रमत्तसंयतस्येति । ईरणमीर्या गमनं सैव पन्था मार्गे यस्य तदीर्यापथं, गमनादि - 15 द्वारकं कर्म, तस्य बध्यमानस्य वेद्यमानस्य वा निमित्तभूता या क्रिया सा निमित्तनिमित्तिनोरभेदोपचारादीर्यापथिकी क्रिया । सा च केवलयोगप्रत्ययबन्धरूपा । शैलेश्यवस्थाऽर्वावर्तिकेवलिनां छद्मस्थवीतरागाणाञ्च भवतीति भावः । इयञ्च सयोगिगुणस्थानं यावद्भवति, इमा एव विभागवाक्ये क्रियापञ्चविंशतिपदेनोक्ता इत्याहेतीति । एतासु प्रेमद्वेषप्रत्ययक्रियास्थाने सम्यक्त्वमिध्यात्वक्रिये तत्त्वार्थ भाष्यकारेणोक्ते, तयोश्च या शुद्धमिथ्यात्व मोहदलिका20 नुभवप्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयक श्रद्धारूपा, जिनसिद्धगुरूपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरातपत्रनमस्कारवस्त्राभरणान्नपानशय्यादानाद्यनेक वैयावृत्त्याभिव्यङ्गधा, शुद्धसम्यक्त्वादिभावसंवर्धनहेतुर्देवा दिजन्म सद्वेद्यबन्धकारणं सम्यक्त्वक्रिया । सा च सामान्येन सरागजीवस्वामिकत्वादत्र प्रेमप्रत्ययिकीत्युक्ता । मिध्यात्वक्रिया तु सम्यक्त्वक्रिया विपरीताऽभिगृहीताभिनिविष्टादिमिध्यादृष्टिस्वामिकत्वेनात्र द्वेषप्रत्ययिकीति प्रोकेति ध्येयम् । 25 सोऽयमास्रवः सरस्तुल्यस्यात्मनः परिणामविशेषः कर्मोदकप्रवेशे रन्धं तत्र प्राणातिपातादिनि
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy