SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ मनश्रवः ] अधुना कायाश्रवमाह - न्यायप्रकाशसमलङ्कृते : १११ : शरीरचेष्टाजन्याश्रवः कायाश्रवः ॥ शरीरेति । शरीरपदमौदारिका दिकाय सप्तकान्यतमपरं यथौदारिककाययोग औदारिकमिश्र काययोगो वैक्रियकाययोगो वैक्रियमिश्रकाययोग आहारककाययोग आहारकमिश्रकाययोगः कार्मणकाययोगः, तत्र प्रथमद्वितीयौ तिर्यङ्मनुष्याणामेव, केवलि समुद्धातकाले चाद्यः प्रथमाष्टमसमययोरिष्टः, द्वितीयः केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु, तृतीयों नारकदेवानां तिर्यङ्मनुष्याणाञ्च विभूतिप्राप्तानाम्, चतुर्थ औदारिकेण सह ग्रहणकाले, देवनारकयोस्त्वपर्याप्तावस्थायाम् कार्मणेन सह, पञ्चम ऋद्धिप्राप्तस्य साधोरेव, षष्ठ औदारिकेण संह ग्रहणकाले, सप्तमः पुनर्विग्रहसमापत्तौ केवलिसमुद्धाते वा त्रिचतुर्थ पञ्चमसमयेषु भवति । तत्र यथासम्भवमेभिर्जन्याश्रवः कायाश्रव इति भावः ।। अथ वागावं प्रतिपादयति 10 वाक्क्रियाजनिताश्रवो वागाश्रवः ॥ वागिति । शरीरनामकर्मोदयाद्वीर्यान्तरायक्षयोपशमादिनिमित्तकाभ्यन्तरवाग्लब्धिसान्निध्ये सति वाक्परिणामाभिमुखस्यात्मनो वाग्वर्गणालम्बनापेक्ष प्रदेशपरिस्पन्दप्रभवाश्रव इत्यर्थः । तत्र वाग्योगश्चतुर्धा सत्यो यथा पापाद्विरमणीयमिति, असत्यो यथा पापं नाम 15 नास्ति किञ्चिदिति, सत्यानृतो यथा इमा गावश्चरन्तीति, अत्र पुंसामपि सम्भवात्, असत्यामृषा यथा हे देवदत्त ! ग्रामं गच्छेत्यादि ॥ सम्प्रति मनआश्रवं प्ररूपयति मनश्चेष्टाजन्याश्रवो मनआश्रवः । इति योगत्रिकाश्रवः ॥ नष्टेति । वीर्यान्तरायानिन्द्रियावरणक्षयोपशमादिमनोलब्धिसन्निधाने मनोवर्गणा - 20 लम्बनापेक्ष परिणामोन्मुखात्म प्रदेशपरिस्पन्दप्रसूताश्रव इत्यर्थः । तत्रैकेन्द्रियाणां काययोगों वाङ्मनोव्यापाराभावात्, द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां कायवाग्योगौ, संज्ञिपश्चेन्द्रि १. वैक्रियमिश्रं ह्यौदारिकेण कार्मणेन वा सह भवति, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरं पञ्चेन्द्रियतिर्यङ्मनुष्याणाञ्च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्रमिति भावः ॥ २० सिद्धप्रयोजनस्य चतुर्दशपूर्वविदः आहारकं परित्यज्य औदारिकमुपाददानस्याssहारकं प्रारभमाणस्य वा भवतीति भावः ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy