________________
: ११० :
तवयायविभाकरे
[ षष्ठकिरणे
अब्रह्माश्रवमाह -
सति वेदोदये औदारिकवैक्रियशरीरसंयोगादिजन्याश्रवोऽब्रह्माश्रवः ॥
1
सति वेदोदय इति । वेदोदये सति औदारिक वैक्रियशरीर संयोगादिजन्यत्वे सति आश्रवत्वं लक्षणम् । आदिना पारस्परिकेक्षणवचनचिन्तनानां ग्रहणम् । वेदमोहोदयविरहि5 तेनानुष्ठितवन्दनादिकालीनशरीर संयोगस्यास्त्र वनिमित्तत्वाभावसूचनाय वेदोदये सतीति । दैवमैथुनाश्रवसंग्रहाय वैक्रियेति । मानुषाद्यब्रह्म संग्रहायौदारिकेति । मैथुनस्य स्त्रीपुंयोग एव प्रचुरप्रयोगात् कर्म्मप्रयुक्त पुरुषद्वयादिविलक्षणसंयोगजन्याश्रवेऽव्याप्तिस्स्यादिति मैथुनशब्दं विहाय सामान्यतः शरीरसंयोग एवोक्तः । तेन स्त्रीपुंसयोः पुरुषयोः स्त्रियोश्च संयोगस्य विलक्षणस्य लाभः | अत्र वेदोदयवतोऽपि सतोऽन्यथा पुरुषादिसंयोगेऽब्रह्माश्रवप्रसङ्गवार10 णाय वेदोदये सतीत्यस्य वेदोदयप्रयुक्तत्वमर्थः, अन्वयश्चास्य संयोगे, उक्तसंयोगस्य वेदोदयप्रयुक्तत्वाभावान्न दोषः । न चैकस्य हस्तादिसंघट्टनादितोऽब्रह्माश्रवो न स्यादिति वा - च्यम्, स्त्रीपुंसयो रत्यर्थे संयोगे परस्परकृतस्पर्शाभिमानादिवात्रापि करादिसंघट्टनात् स्पर्शाभिमानस्य तुल्यत्वात् । यथैकस्यापि पिशाचवशीकृतत्वात्सद्वितीयत्वं तथैकस्यापि वेदमोहोदयाविष्कृतकामपिशाच वशीकृतत्वात्सद्वितीयत्वसिद्धेश्व ॥
15
अथ परिग्रहाश्रवमाख्याति—
द्रव्यादिविषयाभिकाङ्क्षाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः ।।
द्रव्यादीति । बाह्यानां चेतनाचेतनानां रागादीनामाभ्यन्तराणामुपधीनां च संरक्षणार्जनसंस्कारादिलक्षणव्यापृतिर्द्रव्यादिविषयाभिकाङ्क्षा लोभपरिणतिरूपा विवेकभ्रंशिका तज्जन्याश्रव इत्यर्थः । तत्र बाह्यो विषयो वास्तुक्षेत्र धनधान्यशय्यासनयानकुप्य द्विचतुःपाद्भाण्डादिः, 20 आभ्यन्तरश्व रागद्वेषक्रोधमानमायालोभमिथ्यादर्श नहास्य रत्यरतिभयशोकजुगुप्सावेदाख्यचतुर्दशविधः, आदिनोपधीनां ग्रहणम् । न च यथाssध्यात्मिकरागादौ जीव परिणामस्वरूपे सङ्गः परिग्रह इत्युच्यते तथैव ज्ञानदर्शनचारित्रेष्वपि सङ्गः परिग्रहः स्यादिति वाच्यम् ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावेन परिग्रहासम्भवात् ज्ञानादीनामहेयत्वेनात्मस्वभावानतिवृत्त्याऽपरिग्रहत्वाच्च । कर्मोदयतन्त्रत्वेन रागादीनामनात्मस्वभावत्वात् । शास्त्रसम्मतेषु 25 चारित्रोपयोग्युपधिशय्याहारादिषु काङ्क्षाया आश्रवा हेतुत्वेन रागद्वेषमोहाभिप्रायकमभीतिपदम् । द्रव्यपदं द्रव्यक्षेत्र कालभावात्मकचतुर्विधपरिग्रहसूचकम् । इमे हिंसाद्याश्रवा विभागवाक्येs व्रतपकपदबोध्या इत्याहेतीति ॥