________________
स्तेयांश्रवः ]
न्यायप्रकाशसमलङ्कते
असत्यावं लक्षयति
- अयथावद्वस्तुप्रवृत्तिजन्याश्रवोऽसत्याश्रवः ॥
अयथावदिति । अयथावद्वस्तुप्रवृत्तिर्नाम-ये पदार्था यथार्था न भवन्ति तेषु यथार्थतया वाकायमनसां प्रवर्त्तनम् , तज्जन्य आस्रव इत्यर्थः । अत्र प्रवृत्तिग्रहणेन कायजन्यानां . पाणिनेत्रौष्ठपादाद्यवयवक्रियाणां अलीकानां परवचनोपयुक्तानां, वाग्जन्यानां असद्वचनानां, 5 मनोजन्यानामसद्विचाराणाञ्च सङ्ग्रहः । ज्ञानग्रहणेन वचनग्रहणेन वाऽन्यतमस्य सङ्ग्रहः स्यान्न तु सर्वेषाम् । नास्त्यात्मा, नास्ति परलोकः, इत्यादिवचनानि, श्यामाकतन्दुलप्रमाणोऽङ्गुष्ठपर्वमात्रप्रमाणो वा आदित्यवर्णो निष्क्रियो वाऽयमात्मेत्यादिवचनानि, अश्वं यो गां ब्रवीति गामश्वमेतादृशान्यपि वचनानि, हिंसापारुष्यारुन्तुदवचांसि च शास्त्रगर्हितत्वेनायथावद्वस्तुविषयकाण्येवेति न क्वाप्यव्याप्तिरप्रशस्तार्थत्वादिति ॥
10 स्तेयाश्रवं निरूपयति
स्वाम्यवितीर्णपदार्थस्वायत्तीकरणजन्याश्रवः स्तेयाश्रवः । स्वामीति । स्वामिनाऽवितीर्णानां पदार्थानां यत्स्वायत्तीकरणं तज्जन्याश्रव इत्यर्थः । स्वामिपदं जीवतीर्थंकरगुरूणामुपलक्षकं, तेन स्वामिनाऽदत्तस्य तृणादेः, जीवेनादत्तस्य वा पुष्पफलादेस्तीर्थकरप्रतिषिद्धस्याधाकर्मिकाहारादेः, गुरुभिरननुज्ञातभोज्यादीनामपि सङ्ग्रहः । 15 न चाष्टविधं कर्मान्येनादत्तं ग्रहीतुः स्तेयत्वं स्यादिति वाच्यम् , दानादानप्रवृत्तिनिवृत्तियोग्यवस्तुष्वेव तदुपपत्त्या कर्मण्यसम्भवात् । अन्यथा स्वाम्यवितीर्णेतिपदस्य वैयर्थ्यापत्तेः, कर्मणः सूक्ष्मत्वेन करादिना ग्रहणविसर्जनासम्भवाच्च । न च कथं तर्हि शुभाशुभकर्मणामादानं सङ्गच्छत इति वाच्यम् , शरीराहारशब्दादिविषयेषु रागद्वेषादिपरिणामेन कर्मबन्धस्यैवाऽऽदानरूपत्वात् । न च नित्यकर्मबन्धप्रसङ्ग इति वाच्यम् , गुप्त्यादिभिस्संवरणात् । स्वामिनेति पदेन 20 केनाप्यपरिगृहीतस्य ग्रहणं स्तेयमिति व्युदस्तं, अपरिगृहीतस्य शास्त्रेणानुज्ञातस्य पदार्थस्य ग्रहणे शासने स्तेयत्वानुक्तेः, ननु शास्त्रस्य परत्वाभावात् परप्रदत्तानेषणीयादेहणे कथं स्तेयत्वमिति चेन्मैवम् , शास्त्रं हि ज्ञानमात्मपरिणामविशेषः, परिणामपरिणामिनोरभेदेन च शास्त्रस्यापि परत्वं निष्प्रत्यूहमेव ॥
१. आदानं हि ग्राह्यधार्यद्रव्यविषयत्वाव्यैकदेशविषयं, नतु निखिलद्रव्यविषयं, ग्रहणधारणयोग्यश्च बादरपुदलस्कन्धरूपं द्रव्यं शरीराणि च साक्षात् , तद्वारा च जीवा नतु धर्मादयोऽविषयपुद्गला वा इति भावः।