________________
तत्त्वन्यायविभाकरे
[ षष्ठकिरणे प्रमादिकर्तृकप्राणवियोगजन्याश्रवो हिंसाश्रवः ।। प्रमादिकर्तु केति । प्रमादिपुरुषकर्तृको यः प्राणवियोगस्तजन्याश्रवो हिंसाश्रव इत्यर्थः। कषायविकथेन्द्रियनिद्राऽऽसवैः प्रमादमुपगतः प्रमादी, तत्र षोडशविधाः कषायास्तत्परिणत
आत्मा प्रमादी स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धा विकथा, रागद्वेषाविष्टचेताः घ्यादिविक5 थापरिणतः प्रमादी, स्पर्शनादीन्द्रियद्वारकरागद्वेषसमासादितपरिणामविशेष आत्मा प्रमादी दर्शनावरणकर्मोदयजन्यपञ्चविधनिद्रापरिणामविशिष्ट आत्मा प्रमादी । आसवो मद्यं मधुवारशीधुमदिरादि, तदभ्यवहाराद्विह्वलतामुपेतः प्रमत्तः। प्रमादिकर्त्तकः, प्रमत्तव्यापारजन्यः। प्राणाः पञ्चेन्द्रियाणि आयुःकायवाङ्मनःप्राणापानाश्चेति द्रव्यपरिणामरूपा दशविधा
यथासंभवं जीवेष्ववस्थिताः, तेषां वियोग आत्मनः पृथक्करणं, तज्जन्याश्रव इति भावः । 10 प्राणिनः स्वतो निरवयवत्वेन पृथक्करणासम्भवात् प्राणवियोग इत्युक्तम् , तथा च प्राणवियो
गपूर्वकः प्राणिवियोग इति तात्पर्यम् । न च प्राणानामात्मनोऽन्यत्वेन तद्वियोगे नात्मनः किञ्चिद्भवतीत्यधर्माभाव इति वाच्यम् , जीवस्य तत्सम्बन्धिनः प्राणवियोगे दुःखोत्पाददर्शनात्। शरीरिणोऽन्यत्वेऽपि पुत्रकलत्रादिवियोगे सन्तापदर्शनात् । बन्धापेक्षया कथञ्चिच्छरीरशरीरिणोऽनन्यत्वाच्च । केवलं प्राणवियोगमात्रस्य हिंसात्वाभावात्प्रमादिपुरुषकर्त्तकेत्युक्तम् । 15 तथा च प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादितम् । प्रमत्तो ह्याप्तागमनिरपेक्षो दूरो
त्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यन्तया करोति । तत्र सोऽयं प्राणवियोगो हिंसापरनामा द्रव्यभावभेदेन द्विविधः, अत्र चतुर्भेदाः, कदाचिद्रव्यतः प्राणातिपातो न भावतः, कदाचिद्भावतो न द्रव्यतः, कदाचिद्रव्यतो
भावतश्च । कदाचिच्च न द्रव्यतो न वा भावत इति । यो हि ज्ञानी श्राद्धः स्वीकृतजीवस्व20 तत्वः कर्मक्षपणार्थ प्रवृत्तचरणसम्पत् काश्चिद्धर्मक्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः
पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमक्षेप्तुमसमर्थः कदाचित् पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्यात्यन्तशुद्धाशयस्य दयादत्तावधानविमलचेतसः द्रव्यप्राणव्यपरोपणमात्रान्नास्ति हिंसकत्वम् । द्वितीये व्याधस्य प्रम
त्तस्याकृष्टधनुषो लक्ष्यमृगमुद्दिश्य विसर्जितशिलीमुखस्य कदाचिच्छरपातस्थानादपसृते सारङ्गे 25 चेतसोऽशुद्धत्वाद् द्रव्यतोऽविनष्टेष्वपि प्राणिषु व्याधस्य हिंसारूपेण परिणतत्वाद्भवत्येव भावतो हिंसा । तृतीये तत्रैव मृगो यदा म्रियते तदा द्रव्यभावाभ्यां हिंसकत्वम् । चतुर्थे तु शैलेशीकरणवर्तिनस्सिद्धाश्च, तेषां योगाभावेन द्रव्यभावहिंसाऽसंभवादतो द्वितीये तृतीय एव कल्पे हिंसकत्वं न प्रथमचतुर्थयोरिति दिक् ।।