________________
क्रोधाद्याश्रवः ] न्यायप्रकाशसमलङ्कृते ।
:१०७: घ्राणेन्द्रियाश्रवमाह
गन्धविषयकरागद्वेषजन्याश्रवः घ्राणेन्द्रियाश्रवः ॥ गन्धेति । सुरभ्यसुरभिरूपघ्राणजप्रत्यक्षयोग्यगन्धविषयकानुकूल्यप्रातिकूल्यप्रयुक्तप्रीत्यप्रीतिजन्याश्रवो घ्राणेन्द्रियाश्रव इत्यर्थः । गन्धविषयकरागद्वेषान्यतरजन्यत्वे सत्याभवत्वं लक्षणं, कृत्यं पूर्ववत् ॥
चक्षुरिन्द्रियाश्रवं श्रोत्रेन्द्रियाश्रवञ्चाचष्टे
रूपविषयकरागद्वेषजन्यावश्चक्षुरिन्द्रियाश्रवः । शब्दविषयकरागद्वेषजन्याश्रवः श्रोत्रेन्द्रियाश्रवः । इतीन्द्रियपञ्चकाश्रवः ॥
रूपेति । श्वेतादिरूपेण पञ्चप्रकारं चक्षुर्ग्रहणयोग्यं यद्रूपं तद्विषयकानुकूल्यप्रातिकूल्यप्रयुक्तरागद्वेषान्यतरजन्य आवश्चक्षुरिन्द्रियाश्रव इत्यर्थः, रूपविषयकरागद्वेषान्यतरजन्यत्वे 10 सत्याश्रवत्वं लक्षणं कृत्यं प्राग्वत् । श्रोत्रेन्द्रियाश्रवमाचष्टे-शब्दविषयकेति । सचित्ताचित्तमिश्रात्मकत्रिविधशब्दविषयकरागद्वेषान्यतरजन्याश्रव इत्यर्थः । लक्षणं कृत्यश्च स्फुटम् । एत एव विभागवाक्ये इन्द्रियपञ्चकपदेनोक्ता इत्याह इतीति ।
अथ क्रोधाद्याश्रवानाह
प्रीत्यभावप्रयुक्ताश्रवः क्रोधाश्रवः । अनम्रताजन्याश्रवो मानाश्रवः। 15 कापट्यप्रयुक्ताश्रवो मायाश्रवः । सन्तोषशून्यताप्रयुक्ताश्रवो लोभाश्रवः । इति कषायचतुष्काश्रवा ।।।
प्रीत्यभावेति । प्रीत्यभावः क्रौर्यपरिणामः, क्रोधोऽनन्तानुबन्ध्यादिभेदः, तत्प्रयुक्त आश्रवः शुभाशुभाध्यवसायः क्रियाविशेषो वा क्रोधाश्रव इत्यर्थः। मानाश्रवमाह-अनम्रतेति । मानोऽनम्रता, अप्रणतिस्तजन्याश्रव इत्यर्थः। स च श्रुतजात्यादिगर्वावलम्बना- 20 द्भवति । मायाश्रवमाचष्टे-कापटयेति । माया कापट्यं परविप्रलम्भः, छमप्रयोगस्तजन्यः शुभाशुभाध्यवसायो वा जीवक्रियाविशेषो वा मायाश्रव इत्यर्थः । लोभाश्रवमभिधत्तेसन्तोषेति । लोभः सन्तोषशून्यता तृष्णापिपासाभिष्वङ्गास्वादलक्षणस्तजन्यः शुभाशुभाध्यवसायो वा क्रियाविशेषो वा लोभाश्रव इत्यर्थः । विभागवाक्ये, एत एव कषायचतुष्कपदेन ग्राह्या इत्याहेतीति ॥
अधुना हिंसाश्रवमाह