________________
: १०६ :
तस्त्वन्यायविभाकरे
[ षष्ठकिरणे
पौगलिकोऽयमिति । कायो हि जीवस्य निवासभूतः पुद्गलद्रव्यसंघातः, तद्योगाज्जीवस्य यो वीर्यपरिणामस्स काययोगः, आत्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्य - माना वाक्करणतामापद्यन्ते तत्सम्बन्धाञ्चात्मनो या वीर्यपरिणतिः स वाग्योगः, जीवेन सर्वप्रदेशैर्गृहीता मनोवर्गणायोग्यस्कन्धाः करणभावमालम्बन्ते तत्सम्बन्धाञ्चात्मनः पराक्रम5 विशेषो मनोयोगः, इत्येवं योगत्रिकैरात्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रव उच्यते, तदनुकूलाध्यवसायस्तु भावाश्रव इत्याशयेनाह - आत्मप्रदेशेष्विति । शेषं स्पष्टम् । तथा साम्परायिककर्मबन्धभाजां सत्स्वपीन्द्रियादिषु तुल्यतया निमित्तेषु तीव्रमन्दज्ञाताज्ञातभावेभ्यो वीर्य - विशेषादधिकरणविशेषाच्चास्रवाणां विशेषो विज्ञेयः ||
पूर्वोदितानामाश्रवभेदानां स्वरूपमनुक्रमेणोपवर्णयितुमारभते
स्पर्शविषयकरागद्वेषजन्याश्रवः स्पर्शेन्द्रियाश्रवः ॥
स्पर्शेति । स्पर्शश्शीतादिरूपेणाष्टविधः स्पर्शेन्द्रियजन्यप्रत्यक्षविषयः, तद्विषयको यौ रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तज्जन्यः कर्मबन्धानुगुण आत्माध्यवसायो वा योगक्रियाविशेषो वा स्पर्शेन्द्रियास्रव उच्यत इत्यर्थः । तथा च स्पर्शविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं लक्षणम् । रसनेन्द्रियास्रवादावतिप्रसङ्गभङ्गाय सत्यन्तम् । कालादि15 वारणाथ विशेष्यम् । रसनेन्द्रियात्रवादावतिव्याप्तिवारणाय स्पर्शविषयकेति ॥
रसनेन्द्रियाश्रवमाह
10
रसविषयकरागद्वेषजन्याश्रवः रसनेन्द्रियाश्रवः ॥
रसविषयकेति । अम्लादिभेदेन पञ्चविधा रसाः रसनेन्द्रियजन्यप्रत्यक्षविषयाः तद्वि-पयको यौ रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तदन्यतरजन्यः कर्मबन्धानुगुणो 20 जीवाध्यवसाय विशेषो योगविशेषो वाऽऽस्रवः रसनेन्द्रियास्रव इत्यर्थः, रसविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं रसनेन्द्रियाश्रवस्य लक्षणम्, कृत्यं प्राग्वत् ॥
१. परिणामस्य तीव्रमन्दभावे कर्मबन्धोऽपि तीव्रो मन्दश्च भवति, सिंहस्य गोर्घातिनश्च प्राणातिपाते समानेऽपि कर्मबन्धो न तुल्यः, शौर्याभिनिवेशिनो बहुलं कर्मबन्धात् ज्ञातभावोऽभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अज्ञातभावोऽनभिसन्धाय तत्र प्रवृत्तिः, वीर्यान्तरायकर्मक्षयोपशमजन्यः सामर्थ्यविशेषो वज्रर्षभनारा चसंहननीयापेक्षः त्रिष्टष्टादीनां संरब्धसिंहपाटनादिरूपः तद्विशेषादपि कर्मबन्धविशेषः । अधिकरणं दुर्गतिप्रापकं निर्वर्सना संयोजनादिभेदं कर्मबन्धविशेषहेतुरिति ॥