________________
पापहेतवः ]
न्यायप्रकाशसमलते णायाद्यं सत्यन्तं, समचतुरस्रादावतिप्रसक्तिवारणार्थ द्वितीयं सत्यन्तम् । पाण्यादिमत्त्वञ्च प्रयोजकतासम्बन्धेन । अर्धनाराचसंस्थानवदस्य स्थिती ॥
वामनं हुण्डञ्चाभिधत्ते
एतद्वैपरीत्यहेतुः कर्म वामनम् । सर्वावयवाशुभत्वनिदानं कर्म हुण्डम् । इति पञ्चसंस्थानानि । एते पापानुभवप्रकाराः ।
एतदिति । निर्लक्षणपाण्यादिमत्त्वे सति सलक्षणवक्षःप्रभृप्तिमत्त्वप्रयोजकत्वे च सति कर्मत्वं लक्षणम् । समचतुरस्रादौ साद्यादौ क्रमेण व्यभिचारवारणाय सत्यन्तद्वयं । कीलिकावदस्य स्थिती । हुण्डमाह-सर्वेति । सर्वावयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अशुभनामकर्मण्यतिव्याप्तिवारणाय सर्वेति । यद्यशुभपदेनात्र लक्षणविस्तारादिगृह्यते तदा नाशुभनामकर्मण्यतिप्रसक्तिः किन्तु न्यग्रोधादावेवेति बोध्यम् ॥ स्थिती च सेवार्त्तवत् । 10 इतीति । विभागवाक्यान्तर्गताप्रथमसंस्थानशब्दवाच्यानीति शेषः । इमानि व्यशीतिविधानि पापकर्माणि प्राणातिपातादिहेतुभिर्बद्धेन जीवेनानुभूयन्ते इत्याह एत इति । द्व्यशीतिविधा कर्मविशेषा इत्यर्थः ॥
पापहेतून दर्शयति
पापबन्धहेतवस्तु प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहाप्रश- 15 स्तक्रोधमानमायालोभरागद्वेषकलहाभ्याख्यानपिशुनतारतिरतिपरपरिवादमायामृषावादमिथ्यात्वशल्यानि । इतिपापतत्त्वम् ॥ __ पापबन्धहेतवस्तु इति । नियतपुल्लिंगो हेतुशब्दः । यद्यपि जीवस्याशुभाध्यवसायविशिष्टा वाक्कायमनसामशुभव्यापारा बन्धहेतवस्तथापि तानेव विशेषतो दर्शयति, यद्वा व्यापारस्य शुभाशुभत्वं न शुभाशुभकर्मकारणत्वेन, शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वा- 20 भ्युपगमात् । किन्त्वशुभपरिणामनिवृत्तत्वादतस्ताने वाह प्राणातिपातेत्यादिना । प्राणानामतिपातो विनाशः पातनं शातनं वा प्रमन्तयोगाव्यतो भावतश्च । मृषावादो विद्यमानस्यापलापः, अविद्यमानप्रकाशनं शास्त्रप्रतिषिद्धवागनुष्ठानश्च । अदत्तादानं, परैरदत्तस्य परिगृहीतस्य वा पदार्थसार्थस्य स्वेच्छया ग्रहणं धारणञ्च । मैथुनं मोहकर्मोदयादुद्भूततीव्रकायादि. परिणामयोः स्त्रीपुंसयोमिथुनभावः परस्पराऽऽश्लेषः सुखोपलम्भकः । परिग्रहो बाह्याभ्यन्तरेषु 25 लोभानुरक्तचित्तवृत्त्या अभिलाषा । अप्रशस्ताः क्रोधमानमायालोभरागद्वेषाः, प्रशस्तास्त्वेते न पापानुकूलाः । कलहो राटिः, अभ्याख्यानं प्रकटमसदोषारोपणं पिशुनता दौर्जन्यम् , मोहनी