________________
: १०२ :
न्यायविभाकर
अर्धनाराचमाचष्टे - एकत इति । एकपार्श्वमात्रावच्छेदेन मर्कटबन्धविशिष्टास्थिसंधिनिदानत्वे सति कर्मत्वं लक्षणम् । नाराचादिवारणायैकपार्श्वमात्रावच्छेदेनेति । अत एव मात्रपदमपि, षोडश सागरोपमकोटी कोट्योऽस्य परा स्थितिरबाधा च षोडशवर्षशतानि जघन्या पश्चेन्द्रियवत् । कीलिकामाह - केवलेति । केवलकीलिका सदृशास्थिबद्धास्थिनिचयप्रयोजकत्वे सति 5 कर्मत्वं लक्षणम् । वज्रर्षभनाराचे व्यभिचारवारणाय केवलेति । उत्कृष्टा स्थितिरस्याष्टादशसागरोपमकोटी कोट्यः, अष्टदशवर्षशतान्यबाधा जघन्या तु पश्चेन्द्रियस्येव । अथ सेवार्त्तमाख्याति–परस्परेति । परस्परपृथस्थितिकानामस्थनां शिथिलसंश्लेषनिदानत्वे सति कर्मत्वं लक्षणम् । अस्य संहननस्योदये सति जीवो नित्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलनामाकांक्षति । अस्यैव च सृपाटिकेति तत्त्वार्थे नामान्तरम् । विंशतिसागरोपमकोटी कोट्यो ऽस्य 10 परा स्थितिः । वर्षसहस्रद्वयवाबाधा, जघन्या पञ्चेन्द्रियवत् । इमानि संहननानि औदारिकशरीर एव भवन्ति । विभागवाक्येऽप्रथमसंहननशब्दवाच्यान्येतान्येवेत्याह इतीति ॥
1
[ पञ्चमकिरणे
अथ न्यग्रोधपरिमण्डलादिसंस्थानान्याह—
नाभेरूर्ध्वं विस्तृतिबाहुल्य सल्लक्षण निदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षण15 पाण्यादिमत्त्वे सति निर्लक्षणवक्षः प्रभृतिमत्त्वप्रयोजकं कर्म कुब्जं ॥
नाभेरूर्ध्वमिति । नाभेरूर्ध्वमेवेत्यर्थः । यथा न्यग्रोधो वृक्ष उपरि संपूर्णावयवोऽधस्तु नस्तथेदमपि कर्म नाभेरुपरि विस्तारबहुलस्य संपूर्णलक्षणादिमत्त्वस्य चाधस्तद्धीनस्य शरीरस्य प्रयोजकमिति भावः । नाभेरूर्ध्वभागमात्रावच्छेदेन विस्तृतिबाहुल्य सल्लक्षणनिदानत्वे सति कर्मत्वं लक्षणम् । समचतुरस्रसंस्थानवारणाय नाभेरूर्ध्वभागमात्रावच्छेदेनेति । नाभे20 रूनिखिलभागमात्रावच्छेदेनेत्यपि वाच्यं तेन यत्किञ्चित्पाण्यादीनां विस्तृतिबाहुल्य सल्लक्षणप्रयोजके कुब्जनामकर्मणि नातिव्याप्तिः । स्थिती वर्षभनाराचवत् । सादिमाचष्टे - नाभ्यधोभागेति । येन नाभेरधस्तादेव सर्वेऽवयवाः समीचीनेन लक्षणेन च युतास्तदित्यर्थः । नाभ्यधस्सर्वभागमात्रावच्छेदेन सुप्रमाणलक्षणवत्त्वप्रयोजकत्वे सति कर्मत्वं लक्षणं समचतुरखेऽतिव्याप्तिवारणाय नाभ्यधस्सर्वभागमात्रावच्छेदेनेति । इदमेव साचिस्वातिशब्दाभ्यां 25 व्यवह्रियते । स्थिती तु नाराचसंहननवत् । कुब्जमभिधत्ते -सलक्षणेति । यतः कन्धराया उपरितनावयवा हस्तपादश्च समचतुरस्रलक्षणयुक्तं अधस्तनकायस्तु लक्षण विसंवादी तत्कर्म कुब्जम् । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षः प्रभृतिमत्त्वप्रयोजकत्वे सति कर्मत्वम् । आदिना पादकन्धरोपरितना अवयवा ग्राह्याः, प्रभृतिना च तद्भिन्नाः । हुण्डेऽतिव्याप्तिवार