________________
संहननकर्म ] न्यायप्रकाशसमलङ्कृते
: १०२ : रावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिश्शरीरान्तर्वर्धमानैर्यदुदयादुपहन्यते जन्तुस्तदुपघातनामेत्यर्थः । शरीराङ्गोपाङ्गघातकं स्वपराक्रमविजयाद्युपघातजनक वोपघातनामेति तत्त्वार्थभाष्यम् । असातादावतिव्याप्तिवारणाय स्वावयवैरेवेति । पञ्चेन्द्रियवदेवास्य स्थिती। अप्रशस्तवर्णनामाह-शरीरनिष्ठेति । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अप्रशस्तो वर्णोऽतिबीभत्सदर्शनःकृष्णादिवर्णः । प्रशस्तवर्णनाम्न्यतिव्याप्तिवारणायाप्रशस्ता- 5 न्तम् । पुद्गलनिष्ठाप्रशस्तवणे कर्मणोऽप्रयोजकत्वेनाप्रशस्तवर्णनामकर्म फलानुमेयं न भवेदिति शरीरनिष्ठेति । पञ्चेन्द्रियवदस्य स्थिती । अप्रशस्तवर्णनामकर्मोदयवतो दृष्टान्तमाह यथेति । अप्रशस्तगन्धनामाचष्टे-शरीरेति । कुथितमृतमूषकादिदुर्गन्धताऽप्रशस्तगन्धः । शिष्टं सर्वमप्रशस्तवर्णवत् । पञ्चेन्द्रियवदस्य स्थिती, निदर्शनमाह यथेति । अप्रशस्तरसनामाभिधत्तेशरीरवृत्तीति । लक्षणं पूर्ववत् स्थिती च । दृष्टान्तमाह यथेति । अथाप्रशस्तस्पर्शनामाह- 10 शरीरवृत्तीति । लक्षणं स्पष्टं कृत्यश्च, स्थिती पूर्ववत् दृष्टान्तमाह यथेति । विभागवाक्ये एत एवाप्रशस्तवर्णचतुष्कपदेनोक्ता इत्याह इतीति ॥
ऋषभनाराचादिसंहननान्याह
उभयतो मर्कटबन्धाकलितास्थिसंचयवृत्तिपट्टबन्धसदृशास्थिप्रयोजकं कर्म ऋषभनाराचम् । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानं 15 कर्म नाराचम् । एकतो मर्कटबन्धविशिष्टास्थिसन्धिनिदानं कर्मार्धनाराचम् । केवलकीलिकासहशास्थिबद्धास्थिनिचयप्रयोजक कर्म कीलिका ॥ परस्परपृथकस्थितिकानामस्थनां शिथिलसंश्लेषनिदानं कर्म सेवार्तम् । इति संहननपश्चकम् ॥
उभयत इति । उभयतो मर्कटबन्धसंवलितास्थिसंचयवृत्तिपट्टसदृशास्थिप्रयोजकत्वे 20 सति कर्मत्वं लक्षणम् अत्र तादृशास्थिमात्रप्रयोजकत्वे सतीति वाच्यमन्यथा वर्षभनाराचे व्यभिचारापत्तेः । नाराचे व्यभिचारवारणाय पट्टसदृशास्थीति । अस्योत्कृष्टा स्थितिादशसागरोपमकोटीकोट्यः, द्वादशवर्षशतान्यबाधा, पश्चेन्द्रियवज्जघन्या । अस्य कर्मणः स्थाने वास्याधं ऋषभस्या नाराचस्यार्धमिति कृत्वाऽर्धवज्रर्षभनाराचनाम पठन्ति तत्त्वार्थभाष्यकाराः । कर्मप्रकृतिग्रन्थेष्वत्र पट्टहीनं वज्रनाराचनाम पठितम् । नाराचसंहननमाचष्टे- 25 उभयत इति । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानत्वे सति कर्मत्वं लक्षणम् , वज्रर्षभनाराचादावतिव्याप्तिवारणाय मात्रपदम् । अर्धनाराचे व्यभिचारवारणायोभयत इति । चतुर्दशसागरोपमकोटीकोट्यः परा स्थितिः चतुर्दशवर्षशतान्यबाधा, जघन्या पश्चेन्द्रियवत् ।