________________
:१००: तत्त्वन्यायविभाकरे
पञ्चमकिरणे ] निबन्धनमिति भाव्यम् । इयं जातिः कीदृशेन्द्रियव्यवहारप्रयोजिकेत्याशङ्कायामाहास्या इति, पञ्चम्यर्थः प्रयुक्तत्वं तथा चैकेन्द्रियजातिनामप्रयुक्तं स्पर्शेन्द्रियमेवेत्यर्थः, केवलस्पर्शेन्द्रियापेक्षया योऽयमेकेन्द्रियव्यवहारस्तत्र प्रयोजकमिदं कर्मेति भावार्थः । उत्कृष्टाऽस्य स्थितिः
पञ्चेन्द्रियवत् , जघन्या तु देवगतिवत् ॥ 5 द्वीन्द्रियादिजातिनाम लक्षयति--
द्वीन्द्रियव्यवहारकारणं कर्म द्वीन्द्रियजातिः । स्पर्शरसने । त्रीन्द्रियव्यवहारसाधनं कर्म त्रीन्द्रियजातिः । स्पर्शरसनघ्राणानि । चतुरिन्द्रियव्यवहारनिदानं कर्म चतुरिन्द्रियजातिः । स्पर्शरसनघाणचक्षुषि ।।
द्वीन्द्रियेति।द्वीन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । कृत्यं पूर्ववत् । कीदृशे10 न्द्रियव्यवहारे प्रयोजकमित्यत्राह-स्पर्शरसन इति, अस्या इत्यनुषज्यते, शिष्टं स्पष्टम् । अस्या
उत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोट्यः, अष्टादशवर्षशतान्यबाधा, जघन्या तु देवगतिवत् । त्रीन्द्रियजातिनामाचष्टे-त्रीन्द्रियेति । लक्षणं कृत्यश्च पूर्ववदेव । अस्या व्यवहारे निबन्धनानीन्द्रियाण्याह स्पर्शेति, अस्या इत्यनुषज्यते । स्थिती चास्या द्वीन्द्रियजातिवत् ।
चतुरिन्द्रियजातिनामाख्याति-चतुरिन्द्रियेति । स्पष्टं लक्षणं कृत्यञ्च । अस्या व्यवहारे 15 निबन्धनानीन्द्रियाण्याह स्पर्शरसनेति । स्थिती च द्वीन्द्रियजातिवत् ॥
अथ कुखगत्यादीन्याह-- ... अप्रशस्तगमनप्रयोजकं कर्म कुखगतिः । यथा खरोष्ट्रादीनाम् । स्वावयवैरेव स्वपीडाजनननिदानं कर्म उपघातनाम । शरीरनिष्ठाप्रशस्तवर्ण
प्रयोजकं कर्म अप्रशस्तवर्णनाम | यथा काकादीनाम् । शरीरनिष्ठाप्रशस्त20 गन्धप्रयोजकं कर्म अप्रशस्तगन्धनाम | यथा लशुनादीनाम् । शरीरवृत्त्य
प्रशस्तरसप्रयोजकं कर्म अप्रशस्तरसनाम । यथा निम्बादीनाम् । शरीरवृत्त्यप्रशस्तस्पर्शप्रयोजकं कर्म अप्रशस्तस्पर्शनाम । यथा बब्बुलादीनाम् । इत्यप्रशस्तवर्णचतुष्कम् ॥ ... अप्रशस्तेति । अप्रशस्तगमनप्रयोजकत्वे सति कर्मत्वं लक्षणम् । यद्वशेन च खरोष्ट्र25 टोलादीनामिवाप्रशस्तगमनमङ्गिनामुपजायते सा कुत्सिता विहायोगतिः कुखगतिः । नर__ कगत्यादिलक्ष्यताव्युदासाय लक्ष्ये खेति । शुभखगतावतिव्याप्तिवारणायाप्रशस्तेति । स्थिती
च पञ्चेन्द्रियवत् ! निदर्शनमाह यथेति । उपघातनाम निरूपयति-स्वावयवैरेवेति । स्वशरी