________________
जातिनामकर्म ] न्यायप्रकाशसमलते
: ९९ : कालप्रशमः स नपुंसकवेदः । स्त्रीपुरुषवेदयोरतिव्याप्तिवारणाय पुंखीति । स्थिती हास्यमोहनीयस्येव । इमान्येव पञ्चविंशतिकर्माणि विभागवाक्यघटककषायपश्चविंशतिपदग्राह्याणीत्याह-इतीति । षोडशकषाया नवनोकषायाश्चेति मिलित्वेत्यर्थः ॥ अथ तिर्यग्गतिमाह
तिर्यक्त्वपर्यायपरिणतिप्रयोजक कर्म तिर्यग्गतिः॥ 5 तिर्यक्त्वेति । तिर्यक्त्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं तिर्यग्गतेर्लक्षणम् , कृत्यं मनुजगतिवत्, स्थिती पञ्चेन्द्रियवत् ॥
तिर्यगानुपूर्वीस्वरूपमाहतिर्यग्गतौ बलान्नयनहेतुकं कर्म तिर्यगानुपूर्वी । इति तिर्यग्द्विकम् ॥
तिर्यग्गताविति । बलात्तिर्यग्गतिनयनहेतुत्वे सति कर्मत्वं लक्षणम् । मनुजानुपूर्व्यादावतिव्याप्तिवारणाय तिर्यगिति। स्थिती च पञ्चेन्द्रियवदेव । इमे एव विभागवाक्यघटकतिर्य- 10 ग्द्विकपदबोध्ये इत्याह इतीति ॥ ...
एकेन्द्रियजातिनाम निरूपयतिएकेन्द्रियव्यवहारहेतुः कर्म एकेन्द्रियजातिः। अस्याः स्पर्शेन्द्रियमेव ।।
एकेन्द्रियेति । यदुदयादयं पृथिवीकायिकादिरेकेन्द्रिय इति संज्ञां लभते व्यपदिश्यते च, तादृशं कर्मेत्यर्थः । एकेन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । द्वीन्द्रियजात्यादि- 15 वारणायैकेति । अत्र द्रव्येन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्याद्भवति। भावरूपन्तु तत्तदिन्द्रियावरणक्षयोपशमसामर्थ्याद्भवति, जातिनाम तु व्यवहारनिबन्धनसमानपरिणतौ
१. ननु व्यवहारशब्दप्रयोगः, तथा चैकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनभूतजातिविपाकवेद्य कर्मप्रकृतिरेकेन्द्रियादिजातिरिति लक्षणार्थः, तच्च न युक्तं शब्दप्रवृत्तिनिमित्तत्वेन क्वापि जात्यसिद्धेरितरथा हादिपदप्रवृत्तिनिमित्ततया हरित्वादिजातेरपि सिद्धिः स्यात् तथाप्येकेन्द्रियादिशब्दप्रवृत्तिनिमित्ततया तादृशजातिस्वीकारे नारकादिव्यवहारनियामकतया पञ्चेन्द्रियत्वव्याप्यनारकत्वादिजातिसिद्धौ गतिनाम्नो वैयर्थ्यापत्तेश्चेति चेन्न, अपकृष्टचैतन्यादिनियामकतयैकेन्द्रियत्वादिजातिसिद्धेः, न तु शब्दप्रवृत्तिनिमित्ततया, सा च जातिरेकेन्द्रियादिव्यवहारनिबन्धना, लाघवात्तन्निबन्धनतया च जातिनामसिद्धिः । नारकत्वादिकं तु न जातिरूपम् , तिर्यक्त्वस्य पञ्चेन्द्रिय त्वादिना सार्यात् । मानुषत्वावच्छेदेन पञ्चेन्द्रियत्वे तिर्यक्त्वाभावसामानाधिकरण्यस्यैकेन्द्रियत्वावच्छेदेन तिर्यक्त्वे पञ्चेन्द्रियत्वाभावसामानाधिकरण्यस्य सत्त्वात् तदुभयस्य च तिर्यपञ्चेन्द्रियत्वावच्छेदेन वृत्तेः, किन्तु सुखदुःखविशेषोपभोगनियामकपरिणामविशेषतया नारकत्वादीनां तन्नियामकत्वेन गतिनाम्न आवश्यकत्वादिति ॥