SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे [ पञ्चमकिरणे भयोत्पादेति । यस्योदयेन सनिमित्तमनिमित्तं वा त्रस्यति, वेपते, उद्विजते, तद्भयमोहनीयम् । भयोत्पादासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । पराघातेऽतिव्याप्तिवारणायासाधारणेति स्वनिखिलभयकारणमित्यर्थः, पराघातेन तु सभ्यादीनां परेषामेव भयं भवति अनेन तु स्वस्येति भावः, स्थिती हास्यमोहनीयवत् ।। 5 जुगुप्सामोहनीयमाख्याति- - - बीभत्सपदार्थावलोकनजातव्यलोकप्रयोजकं कर्म जुगुप्सामोहनीयम् ॥ बीभत्सेति । यदुदयांत् पुरीषादिबीभत्सपदार्थेषु जुगुप्सावान् भवति, शुभाशुभद्रव्यविषयकं वा व्यलीकमुपजायते, तज्जुगुप्सामोहनीयमित्यर्थः । स्थिती हास्यमोहनीयवत् ।। पुरुषवेदस्वरूपमाचष्टे10 स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म पुरुषवेदः ॥ स्त्रीमात्रेति । उद्रिक्तश्लेष्मण आम्रफलाभिलाषेव यस्योदये पुंसः स्त्रियामभिलाषा भवति, तृणाग्निज्वालासमानः स पुरुषवेद इत्यर्थः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रेति । पुरुषवेदमोहाग्ने शं ज्वलतस्समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते समासादिततृणपुल कस्येव, नातीव स्थास्नुरनुबन्धः । उत्कृष्टा स्थितिरस्य हास्यमोहनीयवत् जघन्या त्वष्टौ 15 वर्षाणि, अबाधाऽन्तर्मुहूर्त्तकालः ।। स्त्रीवेदमाह पुरुषमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म स्त्रीवेदः ॥ पुरुषमात्रेति । पित्तद्रव्योदये मधुराभिलाषावत् यस्योदये पुंस्यभिलाषा स्त्रियास्समुपजायते दृढतरखदिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनवत् , बहुतरकालावस्थायी चिरप्रशाम्यः 20 संभाषणस्पर्शनेन्धनाभिवर्धितस्स स्त्रीवेदः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रपदम् , स्थिती हास्यमोहनीयवत् ॥ नपुंसकवेदमाख्याति पुंस्त्रीसंभोगविषयकाभिलाषोत्पादकं कर्म नपुंसकवेदः। इति कषायपञ्चविंशतिः॥ 25 पुंस्त्रीति । पित्तश्लेष्मोदये मज्जिकाभिलाषावत् यस्योदये पण्डकस्य स्त्रीपुंसयोरभिलाषा समुदेति महानगरदाहदहनसन्निभकरीषकृशानुवदन्तर्विजृम्भमाणदीप्ततरकरनिकरो बहुतर
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy