________________
मोकषायाः
न्यायप्रकाशसमलते ..अथ चारित्रमोहनीयस्यापरभेदं नोकषायाख्यं पूर्वोदितकषायसहचारिणं कषायोडीपकं सहचारिकंषायसमफलं नवविधं क्रमेणाऽऽख्यातुमुपक्रमते
हास्योत्पादकं कर्म हास्यमोहनीयम् ॥ हास्योत्पादकमिति । यस्योदयेन सनिमित्तमनिमित्तं वा हसति रङ्गावतीर्णनटवत् तत्कर्म हास्यमोहनीयमित्यर्थः । हास्योत्पादकत्वे सति कर्मत्वं लक्षणं, कृत्यं सुस्पष्टम् । उत्कृष्टा 5 स्थितिरनन्तानुबन्धिक्रोधवत् , जघन्या तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागन्यूनौ, अन्तर्मुहूर्तञ्चाबाधा ॥ रतिमोहनीयमाह
पदार्थविषयकप्रीत्यसाधारणकारणं कर्म रतिमोहनीयम् ।। पदार्थेति । पदार्थविषयकप्रीत्यसाधारणकारणत्वे सति कर्मत्वं लक्षणम् । लोभादावति- 10 व्याप्तिवारणायासाधारणेति । सौभाग्यनामकर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती हास्यमोहनीयवत् ॥ अरतिमोहनीयमाचष्टे
पदार्थविषयकोद्वेगकारणं कर्म अरतिमोहनीयम् ॥ पदार्थविषयकेति । पदार्थविषयकोद्वेगकारणत्वे सति कर्मत्वं लक्षणम् । दुर्भगनाम- 15 कर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती हास्यमोहनीयस्येव ।। शोकमोहनीयं वक्ति
अभीष्टवियोगादिदुःखहेतुः कर्म शोकमोहनीयम् ॥ अभीष्टवियोगादीति । अभीष्टवियोगादिजन्यदुःखहेतुत्वे सति कर्मत्वं लक्षणम् । यदुदयात् प्रियविप्रयोगादौ स्वोरस्ताडमाक्रन्दति, परिदेवते, भूपीठे च लुठति, दीर्घ निःश्वसिति, 20 तच्छोकमोहनीयमित्यर्थः । असातेऽतिव्याप्तिवारणाय जन्यान्तम् । स्थिती हास्यमोहनीयवत् ॥ ....
भयमोहनीयमाचष्टे. भयोत्पादासाधारणं कारणं कर्म भयमोहनीयम् ॥