________________
तस्वस्यायविभाको सर्वविरत्यावरणकारिण इति । सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति भावः। अस्योदये हि विरत्यविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति । अवधिमाह मासचतुष्टयभाविन इति । उत्कर्षेणेयमुक्तिः, जघन्येन तु अहोरात्रं विज्ञेयम् । कुत्रैषां जन्मप्रदत्वमित्यत्राह
मनुजगतिप्रदायिन इति मनुजेषूत्पत्तिं लभत इति भावः । कार्यमाह साधुधर्मघातिन इति 5 साधुधर्मपरिणामोत्पत्तिं नाशयन्तीत्यर्थः ।
प्रत्याख्यानावरणक्रोधचतुष्टयस्वरूपं संक्षेपेणाह.. ईदृशाः क्रोधादय एव प्रत्याख्यानक्रोधादयः॥
ईशा इति । प्रत्याख्यानावरणभूता इत्यर्थः । क्रोधादय एवेति पूर्वोक्तस्वरूपाः क्रोधादय एवेत्यर्थः । प्रत्याख्यानक्रोधादय इति प्रत्याख्यानावरणभूताः क्रोधमानमायालोभा 10 इत्यर्थः । लक्षणं प्रयोजनश्च प्राग्वत् । स्थिती चानन्तानुबन्धिक्रोधवत् , क्रमेणैते वालुकाराजिदारुस्तम्भगोमूत्रिकाखञ्जनरागसदृशाः॥
संज्वलनक्रोधादीन्निवक्तुमादौ संज्वलनस्वरूपमाचष्टे
ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदायिनो यथाख्यातचा... रित्रघातिनस्संज्वलनाः । ईदृशाश्च क्रोधादय एवं संज्वलनक्रोधादयः॥ 1 ईषत्संज्वलनकारिण इति । परीषहोपसर्गादिसंपाते सति चारित्रिणमपि सं=ईषद्
ज्वलयन्तीति संज्वलनाः, एषामुदये हि यथाख्यातचारित्रलाभो न भवति, अकषायचारित्रलाभो न भवतीति भावः । एषामप्यवधिमाह पक्षावधय इति । उत्कर्षेणेदम् पाक्षिकप्रतिक्रमणकाले प्रकर्षतो विध्यापनात् , जघन्येन तु पश्चात्तापोत्पत्त्यनन्तरमेव व्यपगच्छन्तीति भावः ।
ईदृशं क्रोधादिकमनुमृतानां का गतिरित्यत्राह देवगतिप्रदायिन इति । तेषां कार्यमाह यथा20 ख्यातेति । उपशान्तक्षीणकषायस्य यथाख्यातचारित्रावाप्तेरिति भावः । संक्षेपतस्संज्वलनक्रो
धादिस्वरूपमुपदर्शयति ईदृशाश्चेति । संज्वलनात्मकाश्चेत्यर्थः। चशब्दः प्रकारभेदसमाप्तिद्योतकः। क्रोधादय एवेति लक्षणं पूर्ववत् । उत्कृष्टा स्थितिः प्राग्वत् , जघन्या तु संज्वलनक्रोधस्य मासद्वयं संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः, संज्वलनलोभस्यान्तर्मुहूर्त्तम् , सर्वेषामबाधाकालोऽन्तर्मुहूर्त्तम् । क्रमेणोदकराजितृणस्तम्भनिर्लेखनहरिद्रारागसदृशा एते ॥
१. संज्वलना न केवलं यथाख्यातोपघातिनः किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, यतस्तेषामुदये शेषचारित्रमपि सातिचारं भवतीति भावः ॥२, व्यवहारनयापेक्षयाऽयं कालनियमः, बाहुबलिप्रभृतीनामन्येषांसंयतादीनाञ्च संज्वलनस्य पक्षात्परतोऽपि मासवर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबधिनाश्चान्तर्मुहूर्तादिकालं स्थितिश्रवणात् ॥