________________
प्रत्याख्यानाः ]
न्यायप्रकाशसमलहते अनन्तानुबन्धित्वे सति द्रव्यादिमूर्छादिहेतुत्वे सति कर्मत्वं लक्षणं, कृत्यं पूर्ववत् । लोभोऽयं लाक्षारागसदृशः, सन्तोषेण प्रतिहन्यते । स्थिती चानन्तानुबन्धिक्रोधवत् ॥
सम्प्रत्यप्रत्याख्यानक्रोधाद्यभिधानायाऽप्रत्याख्यानस्वरूपमाह
प्रत्याख्यानावरणभूता वर्षावधिभाविनस्तिर्यग्गतिदायिनस्सर्वदेशविरतिघातिनश्चाप्रत्याख्यानाः॥
प्रत्याख्यानावरणभूता इति । देशसर्वविरतिभेदतः प्रत्याख्यानं द्विविधं । प्रत्याख्यानं नाम प्रतिषेधस्याचार्यसन्निधावाख्यानं भावतः, न हन्मि यावज्जीवं सर्वान् प्राणिन इत्यादिरूपतः । अल्पं प्रत्याख्यानमप्रत्याख्यानं देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणास्त एवात्राप्रत्याख्यानशब्देनोक्ताः । तदेवाह प्रत्याख्यानावरणभूता इति देशतोऽपि प्रत्याख्यानस्यावरणभूता इत्यर्थः । एषामुदये हि विरतिर्न भवत्येव । किमेतेऽनन्तानुबन्धि- 10 वदाजन्मभाविन इत्यत्राह वर्षावधिभाविन इति । जघन्येनाष्टमासस्थितिका उत्कर्षेण वर्षस्थितिका इति भावः । न चानन्तानुबन्धिक्रोधमनुसृत्य मृतानां नरकेषूत्पत्तिरिवाप्रत्याख्यानावरणक्रोधमनुसृत्य मृतानां, किन्तु क्षुत्पिपासाशीतोष्णदंशमशका दिविविधव्यसनवशीकृततिर्यग्गतावेवेत्याह तिर्यग्गतिदायिन इति । किमेषां कार्यमित्यत्राह सर्वदेशविरतिघातिन इति । देशतस्सर्वतश्च विरतिं निरुन्धन्तीति भावः॥
15 एकप्रन्थेन संक्षेपकामोऽप्रत्याख्यानक्रोधमानमायालोभानां स्वरूपाण्युपदर्शयतिएतद्विशिष्टाः पूर्वोक्तस्वरूपाः क्रोधादयोऽप्रत्याख्यानक्रोधादयः॥
एतद्विशिष्टा इति । अप्रत्याख्यानसहिता इत्यर्थः । पूर्वोक्तस्वरूपा इति प्रीत्यभावोत्पादककर्मत्वनम्रताविरहप्रयोजककर्मत्वसरलताभावप्रयोजककर्मत्वद्रव्यादिमूर्छाहेतुकर्मत्वरूपाइत्यर्थः । क्रोधादय इति । किन्त इत्यत्राहाप्रत्याख्यानक्रोधादय इति आदिनोभयत्र मान- 20 मायालोभानां ग्रहणम् । लक्षणं प्रयोजनञ्च पूर्ववदूह्यम् । स्थिती चानन्तानुबन्धिक्रोधवत् । क्रमेण भूराज्यस्थिस्तम्भमेषविषाणकर्दमरागसदृशा एते ॥
प्रत्याख्यानावरणक्रोधादीनभिधातुं प्रत्याख्यानावरणस्वरूपमाह
सर्वविरत्यावरणकारिणो मासचतुष्टयभाविनो मनुजगतिप्रदायिनस्साधुधर्मघातिनः प्रत्याख्यानाः ॥
25 १. प्रायोवादापेक्षययमुक्तिः, अप्रत्याख्यानावरणोदयवतामविरतसम्यग्दृशां तियङ्मनुष्याणाञ्च सुरेषुत्पत्तेः प्रत्याख्यानावरणोदयवताच देशविरतानां दवेगतरेप्रत्याख्यानावरणोदयवताश्च सम्यग्दृष्टिदेवानां मनुजगतेश्च श्रुतेः॥