________________
:९४: तत्त्वन्यायविभाकरे
. [ पश्चमकिरणे न्धिपदं प्रीत्यभावे विशेषणं तस्यैव तादृशत्वान्न तु कर्मण इति वाच्यम् , तदनुकूलत्वेन कर्मणोऽपि तथात्वाभ्युपगमात् । आद्यसत्यन्तमत्राप्रत्याख्यानक्रोधादावतिप्रसङ्गवारणाय, द्वितीयञ्चानन्तानुबन्धिमानादावतिप्रसङ्गवारणाय । अस्य परा स्थितिः त्रिंशत्सागरोपमकोटीकोट्यः । वर्षसहस्रत्रितयं चाबाधा, जघन्या सागरोपमस्य च चत्वारो भागाः पल्योपमासंख्येय5 भागन्यूनाः । अयं पर्वतराजितुल्यः क्रोधः शिलायामुत्पन्नाया राजेर्यावच्छिलारूपमवस्थानं तद्वदुत्पन्नानन्तानुबन्धिक्रोधस्य यावत्तत्र भवे जीवति तावदनुवृत्तिस्तदनुमरणाच्च प्रायो नरकप्रापकत्वात्तत्तुल्यत्वं भाव्यम् । क्षमया प्रतिहन्यतेऽयम् ।।
अनन्तानुबन्धिमानस्वरूपमाह
तादृशं नम्रताविरहप्रयोजकं कर्म अनन्तानुबन्धिमानः ॥ 10 तादृशमिति । अनन्तानुबन्धीत्यर्थः । यदुदयादनन्तानुबन्धिनं जात्यागुत्सेकावष्टम्भात्
पराप्रणतिरूपं नम्रताविरहं गच्छति तत्कर्मानन्तानुबन्धिमान इत्यर्थः । कृत्यं पूर्ववदूह्यम् । स्थिती चानन्तानुबन्धिक्रोधवत् । शैलस्तम्भसमानोऽयं मानः । कुतश्चित्कारणात्समुत्पन्नोऽ नन्तानुबन्धिमान आमरणान्न व्यपगच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्चेति
भाव्यम् । मार्दवेन प्रतिहन्यतेऽयम् ॥ 15. अथानन्तानुबन्धिमायामाह
. ईदृक् सरलताभावप्रयोजकं कर्म अनन्तानुबन्धिमाया ॥
ईदृगिति। अनन्तानुबन्धीत्यर्थः । यदुदयतोऽनन्तानुबन्धिनी वश्चनाद्यात्मकात्मपरिणतिरूपां सरलत्वाभावात्मिकां मायामाप्नोति तत्कर्मानन्तानुबन्धिमायेति भावः । अनन्तानु
बन्धित्वे सति सरलत्वाभावादिप्रयोजकत्वे सति कर्मत्वं लक्षणम् , आदिना प्रणिध्युपधिनिक20 त्यादीनां सङ्ग्रहः, कृत्यं प्राग्वत् । स्थिती चानन्तानुबन्धिक्रोधवत्, घनवंशमूलसदृशीयं . माया, उपायशतेनापि ऋजूकमशक्यत्वात् । इयं आर्जवेन प्रतिहन्यते ॥ अनन्तानुबन्धिलोभं लक्षयति
ईदृशं द्रव्यादिमूर्छाहेतुः कर्मानन्तानुबन्धिलोभः॥ ईदृशमिति । अनन्तानुबन्धीत्यर्थः । यस्योदयादनन्तानुबन्धिनमनुप्रहप्रवणद्रव्याद्यभि25 काटावेशरूपमसंतोषात्मकजीवपरिणामविशेष लोभमेति तत्कर्मानन्तानुबन्धिलोभ इति भावः।
१. प्रतिहननञ्चोदयनिरोधोदितविफलीकरणरूपमेवमप्रेऽपि ॥