________________
अनन्तानुवन्धिनः ]
न्यायप्रकाशसमलङ्कृते विधत्वात्तान् क्रमेणाभिधातुमादौ अनन्तानुबन्धिशब्दं निर्वक्ति--.. - अनन्तानुबन्धिनश्चानन्तसंसारमूलनिदानमिथ्यात्वहेतुका अनन्तभवानुबन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्वघातिनः ॥
अनन्तानुबन्धिनश्चेति । अनन्तः संसारश्चतुर्गतिरूपस्तमनुबध्नन्त्यनुसन्दधतीत्येवं- 5 शीला ये जीवपरिणामविशेषाः क्रोधादयस्तेऽनन्तानुबन्धिनः, यद्यप्येतेषामितरकषायविरहितानामुदयो नास्ति तथापि अवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेते. षामेवैतन्नाम । न पुनः सहजोदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात् एतदेवाह-अनन्तसंसारेति । अनन्तस्वरूपसंसारस्य मूलकारणं यन्मिथ्यात्वं तदेव हेतुर्येषामित्यर्थः । मिथ्यात्वसत्त्वे हि नियतमविरतिस्तत्सत्त्वे प्रमादस्तत्सत्त्वे 10 चावश्यं कषाया इति मिथ्यात्वं कषायहेतुरिति भावः। कषायस्य च कर्मशरीरयोग्यपुद्गलग्रहणे प्रधानहेतुत्वादवश्यं तत्सत्त्वे भवसम्बन्ध इत्याशयेनाहानन्तभवानुबन्धस्वभावा इति । क्रोधादय एकैका अपि अनन्तसंसारानुबन्धिन इत्यर्थः । अनुबन्धः सम्बन्धः परस्पराश्लेषरूपः । एषामवधिमाहाऽऽजन्मभाविन इति । यावज्जीवभाविन इत्यर्थः । इष्टानिष्टवियोगसंयोगाभिलषितालाभाद्यन्यतमहेतुना क्रोधादयस्समुत्पन्ना न शाम्यन्त्यामरणं 15 भवान्तरमप्यनुबध्नन्ति, अविद्यमानपश्चात्तापपरिणामास्तीव्रानुशया अत एवैषामाजन्मभावित्वमिति भावः । तत्फलमाह नरकेति । तत्त्वार्थाश्रद्धानरूपमिथ्यात्वस्योदयात् सम्यक्त्वस्य संभव एव नास्तीति क्रोधादय एते स्वाभाविकस्यात्मनस्सम्यक्त्वस्य घोतका इत्याशयेनाह सम्यक्त्वघातिन इति ॥ अधुनाऽनन्तानुबन्धिक्रोधस्वरूपमाह-
20 एवम्भूतं प्रीत्यभावोत्पादकं कर्म अनन्तानुबन्धिक्रोधः॥.. एवम्भूतमिति । अनन्तानुबन्धित्वे सति प्रीत्यभावोत्पादकत्वे सति कर्मत्वं लक्षणम् । यदुदयाज्जीवोऽनन्तानुबन्धिनं स्वपरोपघातनिरनुग्रहाहितक्रौर्यपरिणामममर्षाप्रीतिमन्युशब्दवाच्यं क्रोधमवाप्नोति तत्कापि अनन्तानुबन्धिक्रोध उच्यत इति भावः । न चानन्तानुब
१. प्रायेणानन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, तेनानन्तानुबन्ध्युदयवतां मिथ्यादृशां केषाञ्चिदुपरितनौवेयकेषूत्पत्तावपि न क्षतिः ॥ २. अनन्तानुबन्धिषूदितेषु न मिथ्यात्वक्षयोपशमस्तदभावाच्च न सम्यक्त्वमित्युपचारेण सम्यक्त्वघातकत्वमेषां न मुख्यतः, तैरेव सम्यक्त्वस्यावृतत्वेन मिथ्यात्वस्य वैयापत्तेः । कषायाणां केवलज्ञानावरणहेतुत्वाभावेऽपि कषायक्षयस्य तद्धेतुत्ववदनन्तानुबन्धिनां क्षयोपशमे सम्यक्त्वलाभो विज्ञेयः ॥