________________
: १२: तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे अयशःकीर्त्तिनामाह
ज्ञानविज्ञानादियुतत्वेऽपि यशाकीर्त्यभावप्रयोजकं कर्म अयश:कीर्तिनाम । इति स्थावरदशकम् ॥
ज्ञानविज्ञानेति । व्यावहारिकं यथार्थज्ञानं ज्ञानं, शास्त्रसंस्कृतं ज्ञानं विज्ञानं, यतो ज्ञाना5 दियोग्यगुणपूर्णोऽपि यो न यश कीर्तिमान् परन्त्वश्लाघ्यो भवति तदयशःकीर्तिनामेत्यर्थः ।
ज्ञानविज्ञानादियुतत्वेऽपीत्यस्य सार्थकता पूर्ववद्भाव्या । स्थिती पञ्चेन्द्रियवत् । स्थावरनामप्रभृति यावदयशःकीर्तिकर्माणि विभागवाक्यस्थस्थावरदशकपदवाच्यानीत्याहेतीति ॥ .. नरकगतिनाम निरूपयति
नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः॥ 10 नारकत्वेति । लक्षणन्तु नारकत्वपर्यायपरिणतिप्रयोजककर्मत्वम् । कृत्यश्च मनुजगति
वत् । अस्योत्कृष्टा स्थितिः पञ्चेन्द्रियवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागी पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तम् ॥ नरकायुषो लक्षणमाचष्टे
आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः ।। 15 आयुःपूर्णतामिति । यावत्स्वयोग्यायुः पूर्णत्वं नरकस्थितिहेतुत्वे सति कर्मत्वं लक्षणम् ।
नरकश्च तीव्रशीतोष्णादिपीडाकरं स्थानम् । नरकगतावतिव्याप्तिवारणाय यावत्स्वयोग्यायुःपूर्णत्वमिति पदम् । नरकगतेरायुःपूर्णत्वेऽपि सत्तायां वर्तमानत्वान्न दोषः । त्रयस्त्रिंशत्सागरोपमाणि परा स्थितिरबाधा च पूर्वकोटित्रिभागः, जघन्यं दशसहस्रमबाधा चान्तर्मुहूर्त्तम् ।।
नरकानुपूर्वीलक्षणमाह___बलान्नरकनयनानुगुणं कर्म नरकानुपूर्वी । इति निरयत्रिकम् ॥
बलादिति । प्रकृष्टं पापफलमुपभोक्तुं नरान्-गुरुपापकारिणः प्राणिनः कायन्ति शब्दयन्तीति नरकास्तद्गतौ व्रजतो जीवस्य द्विसमयादिना विग्रहेण अनुश्रेणिनियता गमनपरिणतिर्यतस्सा नरकानुपूर्वीति भावः । स्पष्टमन्यत् । उत्कृष्टा स्थितिः पञ्चेन्द्रियवत् । जघन्या तु
लरकगतिवत् । इमान्येव विभागवाक्ये निरयत्रिकपदेनोक्तानीत्याहेतीति ॥ 25. सम्प्रति चारित्रमोहनीयस्य कषायवेदनीयनोकषायवेदनीयरूपेण द्वैविध्यात्कषायस्य च
क्रोधमानमायालोभात्मकस्य प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदेन षोडश
20