SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ न्यायप्रकाश अनादेयनाम ] न्यायप्रकाशसमलङ्कृते अशुभनाम लक्षयति नाभ्यधोऽवयवाशुभत्वप्रयोजकं कर्म अशुभनाम ॥ नाभ्यधोऽवयवेति । नाभ्यधोऽवयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । नाभेरधस्तनैः पादाद्यवयवैर्हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वमवसेयम् । कामिन्याः पादेनापि स्पृष्टः परो न रुष्यति किन्तु तुष्यत्येवेति व्यभिचार इति न च वाच्यम् , तत्तोषस्य मोह- 5 नीयनिबन्धनत्वात् । हुण्डसंस्थानादावतिव्याप्तिवारणाय नाभ्यधोऽत्रयवेति, हुण्डस्य तु सर्वावयवाशुभत्वप्रयोजकत्वान्नातिव्याप्तिः । पञ्चेन्द्रियवदस्य स्थिती ॥ दुर्भगनामस्वरूपमाह स्वस्य दृष्टमात्रेण परेषामुद्वेगजनकं कर्म दुर्भगनाम ॥ स्वस्येति । यः प्राणी दृष्टमात्रोऽप्युपकारकृदपि रूपादिगुणोपेतोऽपि परेषामुद्वेजको 10 मनसोऽप्रियो भवति यत्कर्मप्रभावात्तहर्भगनामेत्यर्थः । सुरूपे सुगुणेऽपि च स्वस्मिन् परस्योद्वेगजनकत्वे सति कर्मत्वं लक्षणम् , हुण्डादिकर्मण्यतिव्याप्तिवारणाय सुरूप इत्यादिदलं भाव्यम् । अस्यापि स्थिती पश्चेन्द्रियवत् ॥ दुस्स्वरनामाभिधत्तेअमनोहरस्वरवत्त्वप्रयोजकं कर्म दुस्स्वरनाम । यथा खरोष्ट्रादीनाम् ॥. 15 अमनोहरेति । यस्योदयादमनोज्ञस्वरवान्-दीनहीनस्वरो भवति श्रूयमाणोऽप्यसुखमावहति स्वरः तदुस्स्वरनामेत्यर्थः। सुस्वरनामकर्मण्यतिव्याप्तिवारणार्थममनोहरेति । अस्य स्थिती पञ्चेन्द्रियजातितुल्ये । केषामीदृशं कर्म दृश्यत इत्यत्राह यथेति ।। अनादेयनाम निर्वक्ति उचितवक्तृत्वेऽप्यग्राह्यतादिप्रयोजकं कर्म अनादेयनाम ॥ .. 20 उचितवक्तृत्वेऽपीति । यस्य प्रभावतो युक्तमपि ब्रुवाणः परिहार्यवचनो भवति, अर्हणार्हस्याप्यर्हणां नाचरति लोकस्तदनादेयनामेत्यर्थः, निष्प्रभोपेतशरीरनिवर्तकं कर्मानादेय नामेति केचित् । उचितवक्तृसम्बन्धिवचनाद्यग्राह्यताप्रयोजककर्मत्वं लक्षणार्थः । उचितवक्तृसम्बन्धीति पदन्तु पूर्वोक्तनीत्याऽभंभववारणाय । अस्यापि स्थिती पञ्चेन्द्रियवत् ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy