________________
: ९०:
स्वन्यायविभाकरे
[ पचमकिरणे
र्ग्राह्यत्वं तादृशं कर्मेति तात्पर्यार्थः । बादरशरीरन्तु कदाचिददृश्यं कदाचिश्च दृश्यमतो नियतमेवेत्युक्तम् । तथा च नियतादृश्यशरीरप्ताप्तिहेतुत्वे सति कर्मत्वं लक्षणम् । अस्योत्कृष्टस्थितिरष्टादशसागरोपमकोटीकोट्यः, अष्टादशवर्षसहस्राण्यबाधा । जघन्या तु स्थावरनामवत् । निदर्शनं सूक्ष्मनामकर्मभाजा माह यथेति ॥
अपर्याप्तनाम वक्ति
एकेन्द्रियादीनां यथास्वं श्वासोच्छ्वासादिपर्याप्त्यपरिपूर्णताप्रयोजकं कर्म अपर्याप्तनाम । यथा लब्ध्यपर्याप्तानाम् ||
5
एकेन्द्रियादीनामिति । यस्योदये सति स्वयोग्याः श्वासोच्छ्वासादिपर्याप्तयः परिपूर्णतां नासादयन्ति, अपर्याप्त एव जीवो म्रियते तदपर्याप्तनामकर्मेत्यर्थः । यथायोग्यमित्यस्योदा10 हरणमेकेन्द्रियादीनामिति, तदेवाह यथेति । अस्य स्थिती अपि सूक्ष्मनामकर्मवत् ॥ अथ साधारणकर्माssविष्करोति
अनन्तजीवानामेकशरीरवत्त्वनिदानं कर्म साधारणनाम । यथा कन्दादौ ॥
अनन्तेति । यस्य कर्मण उदद्यादनन्तानां जीवानां शरीरमेकं भवति तत्साधारणनामकर्मेत्यर्थः । ननु प्रथममुत्पत्तिदेशमुपयातेन प्राणिना तच्छरीरस्य निष्पादितत्वात्सर्वात्म15 नाऽन्योन्यानुगमनेन क्रोडीकृतत्वाश्च कथं तत्रान्येषां जीवानामवकाशः, सत्यपि चावकाशे येन तच्छरीरं निष्पादितमन्योऽन्यानुगमनेन च क्रोडीकृतं स एव तत्र प्रधानः, तस्यैव च पर्याप्ता पर्याप्तव्यवस्था प्राणापानादिपुद्गलोपादानश्च स्यान्न शेषाणामिति चेन्मैवम्, तथा विधकर्मोदयसामर्थ्येन समकमेव सर्वेषामुत्पत्तिदेशप्राप्तेः तच्छरीराश्रयपर्याप्तिनिर्वर्तनस्य प्राणापानादियोग्य पुद्गलग्रहणस्य च सर्वज्ञैरुक्तत्वात् । प्रत्येकनामकर्मण्य तिव्याप्तिवारणाया20 नन्तजीवानामिति । निदर्शनमाह यथेति । अस्य स्थिती सूक्ष्मवत् ॥
अस्थिरनामाह
प्रयोगशून्यकाले श्रृजिह्वादीनां कम्पनहेतुः कर्म अस्थिरनाम ॥
प्रयोगेति । भ्रूजिह्वादीनामिति शरीरावयवद्योतकम् । प्रयोगकाले यच्छरीरावयवानां कम्पनं न तत्कर्म निमित्तं, अपि तु जीवपरिणामप्रयुक्तं, तस्मात्प्रयोगशून्यकाल इत्युक्तं, तथा 25 च प्रयोगशून्यकालीनशरीरावयवास्थिरत्वप्रयोजकत्वे सति कर्मत्वमिति लक्षणम् । विहायोगत्यादिव्यभिचारनिरासकं वा प्रयोगशून्यकाल इति पदम् । पश्चेन्द्रियवदस्य स्थिती ॥