________________
बमनाम ]
न्यायप्रकाशसमलवृते । अथ मिथ्यात्वमोहनीयमाख्याति
तत्त्वार्थश्रद्धाप्रतिबन्धकं कर्म मिथ्यात्वमोहनीयम् ॥ - तत्त्वार्थेति। मिथ्यात्वं नाम दर्शनाख्यस्य मोहनीयस्य त्रिभेदस्य मिथ्यात्वसम्यक्त्वमिश्ररूपस्यैको भेदः, तच्च सर्वज्ञप्रणीततत्त्वार्थेषु श्रद्धावैमुख्यकारित्वेन बन्धकत्वेन च मोहनीयम् । सम्यक्त्वमिश्रभेदौ त्वध्यवसायविशेषेण शोधितस्य तस्यैव परिणामविशेषौ, तन्मि-5 थ्यात्वमाभिग्रहिकानाभिग्रहिकसांशयिकादिभेदेनानेकविधमपि यथावस्थितवस्तुतत्त्वश्रद्धाननिरोधकत्वेनैकरूपतया विवक्षितम् । अस्य परा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, अबाधाकालस्सप्तवर्षसहस्राणि, जघन्या तु सागरोपमस्य सप्तभागाः पल्योपमासंख्येयभागेन न्यूनाः, अबाधा चान्तर्मुहूर्तम् ॥
स्थावरनामाचष्टेप्रातिकूल्येऽपि स्थानान्तरगमनाभावप्रयोजकं कर्म स्थावरनाम ॥
प्रातिकूल्येऽपीति । प्रातिकूल्ये सत्यपि स्थानान्तरगमनाभावप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । न च स्थानान्तरगमनाभावे न प्रयोजकं कर्म, सिद्धानां धर्मादीनाञ्च कर्माभावेऽपि स्थानान्तरगमनाभावादिति वाच्यम् , प्रातिकूल्यप्रयुक्तं यत्स्थानान्तरगमनं तदभावे कर्मण एव प्रयोजकत्वात् , अत एव न तेजोवाय्वोरव्याप्तिः । नहि तयोर्गमनं प्राति- 15 कूल्यप्रयुक्तं, किन्तु स्वाभाविकं, अतः प्रातिकूल्यप्रयुक्तस्थानान्तरगमनाभावस्तयोरप्यस्त्येव तत्र च कर्मैव प्रयोजकमिति भावः । स्थावरनामकर्मोदयादेव पृथिव्यप्तेजोवायुवनस्पतीनां स्थानशीलत्वम् । विंशतिसागरोपमकोटीकोट्योऽस्य परा स्थितिवर्षसहस्रद्वयमबाधा । सागरोपमस्य सप्तभागाः पल्योपमासंख्येयभागेन न्यूना जघन्या, अबाधा त्वन्तर्मुहूर्त्तम् ॥ सूक्ष्मनाम स्वरूपयति
20 सूक्ष्मपृथिव्यादिकायेषत्पत्तिनिदानं कर्म सूक्ष्मनाम । यथा सर्वलोकवर्तिनां निगोदादीनाम् ॥
सूक्ष्मेति । यदुदयादितरजीवानुग्रहोपघातायोग्यसूक्ष्मशरीरनिवृत्तिः तत्कर्मेति भावः । यस्य कर्मण उदयान्नियतमेवैकैकस्य वा समुदितानां बहूनां वा जन्तुशरीराणामदृश्यत्वं न चक्षु
१. तेजोवाय्वोस्तु स्थावरनामकर्मोदयेऽपि चलनं स्वाभाविकमेव, न पुनरुष्णाद्यभितापेन द्वीन्द्रियादीनामिवविशिष्टमिति ॥
१२..