________________
: 6:
तरवण्याविभाकरे
[परि
लाभ्यां षोढा भवति तदा तु दर्शनावरणपटुमुच्यते । तदेव च निद्रादिपञ्चभिर्युतं नवधा भवत्येतदेव च विभागे दर्शनावरणनवकमित्युक्तमिति ॥
अथ नीचैर्मोत्रमाह—
नीच कुलजन्मनिदानं तिरस्कारोत्पादकं कर्म नीचैर्गोत्रम् ॥
नीचकुलेति । नीचकुलं हीनजात्यादिः, चण्डालमौष्टिकव्याधादयः । तत्र यज्जन्माSSविर्भावस्तन्निदानं निन्दादितिरस्कारोत्पादकञ्च यत्कर्म तन्नीचैर्गोत्रमित्यर्थः । नीचकुलजन्मनिदानत्वे सति तिरस्कारोत्पादकत्वे च सति कर्मत्वं लक्षणम्, विशेषणविशेष्यकृत्यं पूर्ववत् । सामान्येन पापकर्ममात्रस्य तिरस्कारोत्पादकत्वान्नीच कुलजन्मनिदानत्वे सतीत्युक्तम् । न केवलं नीचैर्गोत्रं नीचकुलस्योत्पत्तौ निबन्धनं तथा च सति तत्रोत्पादानन्तरं तस्याभावप्रस10 ङ्गेन संक्रमणोद्वर्त्तनादिकं तदानीं तस्य न स्यात्, अतस्तिरस्कारोत्पादकत्वे च सतीत्युक्तं, तेन न निमित्तकारणमात्रमिदं दण्डादिवत् येन संक्रमणोद्वर्त्तनादिकं न स्यात्, अपि त्वसम - वायिकारणतुल्यं, तेन नीचकुलजस्यापि नोचैर्गोत्रोदयविरोधः । तदानीं नीचकुलजन्मनिदातिरस्कारोत्पादककर्माभावात् । उच्चैर्गोत्रोदये हि न तिरस्कारो भवतीति । अस्य विंशतिसागरोपमकोटीकोट्यः परा स्थितिरबाधा वर्षसहस्रद्वयम् जघन्या त्वष्टौ मुहूर्त्ताः, अबाधा 15 चान्तर्मुहूर्त्तम् ॥
असातावेदनीयं लक्षयति
5
"
दुःखविशेषोपलब्धिकारणं कर्मासातावेदनीयम् ।
दुःखविशेषेति । दुःखं जन्मजरामरणप्रियवियोगानिष्टसंयोगव्याधिबन्धादिजन्यं शारीरिकं बहुविधं मानसं वाऽतिदुस्सहं परिणतिविशेषरूपं तदुपलब्धेः कारणं यत्कर्म तद20 सातवेदनीयमित्यर्थः । विशेष्यविशेषणदलप्रयोजनं स्फुटम् । दुःखविशेषपदेन च वैलक्षण्यबोधकेन दुःखं प्राणिनां केवलपुण्यापकर्षमात्रजनितं न भवति किन्तु स्वानुरूपकर्मप्रकर्षजनितं वेदनाप्रकर्षानुभवरूपत्वात्, अन्यथा दुःखमिदं पुण्यसम्पाद्येष्टाहारापचयमात्रादेव भवेत्, न तु पापोपचयसम्पाद्यानिष्टाहारादिरूपविपरीतबाह्य साधनप्रकर्षमपेक्षेतेति, दुःखविशेषानुभूतेः सकलपापकर्मसाधारण्येऽपि वेदनीयोत्तरप्रकृतेरेव साक्षात्तद्धेतुत्वमिति च 26 सूच्यते । त्रिंशत्सागरोपमकोटी कोट्योऽस्य परा स्थितिः, जघन्या सागरोपमस्य त्रयस्तप्तभागाः पक्ष्योपमासंख्येयभागेन न्यूनाः, सूक्ष्मसंपराये जघन्या द्वादश मुहूर्त्ताः ॥