________________
मोबैगोत्रकर्म ] .
ग्याचप्रकाशसमलइसे . अथ प्रचलामाहउपविष्टस्योत्थितस्य वा चैतन्याविस्पष्टतापादकं कर्म प्रचला।
उपविष्टस्येति । प्रचलयत्यात्मानमिति प्रचला, स्वापावस्थाविशेषोऽयम् । अवस्थायामस्यामुपविष्ट ऊर्ध्वस्थितो वा प्रचलयति विघर्णयत्यात्मानं, अत्र चैतन्यस्याविस्पष्टता च विनिवृत्तेन्द्रियत्वात्प्रीतिलवमात्रनिदाना नेत्रगात्रक्रियाफला विज्ञेया, ईदृशविपाकप्रापकं कर्मापि 5 प्रचलेत्युच्यते तथा चोपवेशनोत्थानकालावच्छिन्नस्थितिमत्पुरुषसम्बन्धिस्वापप्रयुक्तचैतन्याविस्पष्टतापादकत्वे सति कर्मत्वं लक्षणम् । निद्रादावतिव्याप्तिवारणाय सम्बन्ध्यन्तम् । प्रचलाप्रचलादावतिव्याप्तिवारणाय स्थितिमदिति । निद्रादावतिव्याप्तिवारणायोपवेशनोत्थानकालावच्छिन्नेति । निद्रायां निद्रानिद्रायां च पुरुषो हि शेते । शोकश्रममदादिप्रभवेयं प्रचला । स्थिती निद्रावत् ॥
10.
प्रचलाप्रचलामाह
-
15
चङ्कममाणस्य चैतन्याविस्पष्टतापादकं कर्म प्रचलाप्रचला ॥
चक्रममाणस्येति । चङ्कमणकालावच्छिन्नपुरुषसम्बन्धिस्वापप्रयुक्तचैतन्याविस्पष्टतापादकत्वे सति कर्मत्वं लक्षणम् , कृत्यं स्पष्टम् । स्थिती अपि निद्रावत् ॥
स्त्यानर्द्धिमाह
जाग्रदवस्थाऽध्यवसितार्थसाधनविषयस्वापावस्थाप्रयोजकं कर्म स्त्यानर्द्धिः, इति दर्शनलब्ध्यावारकं निद्रापञ्चकम् ।।
जाग्रदवस्थेति । स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यां सा स्त्यानदिः, स्त्यानगृद्धिरपि नामान्तरं, स्त्याना बहुत्वेन संघातमापन्ना गृद्धिरभिकासा, जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः । ईदृशावस्थापन्नस्य प्रथमसंहन- 20 नस्योत्कर्षतः केशवार्द्धबलसदृशी शक्तिरुपजायते प्रवचने प्रसिद्धोऽयमर्थः । तथा च जाग्रदवस्थाध्यवसितार्थसाधनविषयकस्वापावस्थाप्रयोजकत्वे सति कर्मत्वं लक्षणं निद्रादिवारणाय विषयकान्तम् । निद्रावदेवास्या उभयविधा स्थितिः । निद्रापश्चकमिदं प्राप्ताया दर्शनोपलब्धेरुपघातं करोतीत्याह-इतीति, न तु दर्शनावरणचतुष्टयवन्मूलत एव दर्शनलब्धिमुपहन्तीति । अत्रेदं विज्ञेयं दर्शनावरणं बन्धे उदये सत्तायां च कदाचिच्चतुर्धा षोढा नवधा प्राप्यते यदा 25 बन्धादिषु चतुर्धा विवक्ष्यते तदा पूर्वोदितं दर्शनावरणचतुष्कं विज्ञेयम् । तदेव निद्राप्रच