________________
तस्वन्यायविभाकरे
[ पञ्चमकिरणे मिदं केवलज्ञानोत्तरभावि, चक्षुर्ज्ञानादीनि तु चक्षुर्ज्ञानादिपूर्वभावीनि, गौणीकृतसकलविशेषविषयकसामान्यप्रधानविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणं, अनाकारस्यास्य दर्शनस्य प्रत्यक्षत्वेनोत्कीर्तनं ज्ञानोत्तरकालभावित्वस्याव्यवहितात्मद्रव्यसमुत्थत्वस्य निखि
लसामान्यविशेषविषयकत्वस्य च सूचनाय, केवलं गुणप्रधानभावापेक्षया च तयोर्विशेषः । 5 सर्वघातीदम् । अस्यापि जघन्योत्कृष्टा स्थितिमतिज्ञानावरणवत्। अथ मनःपर्यवदर्शनं नास्त्येव,
मनोभावविषयकत्वेन सामान्यविषयकबोधानात्मकत्वेन साकारत्वात्तस्य, अतो दर्शनावरणानि चतुर्विधान्येव, तान्येव च विभागवाक्ये दर्शनावरणचतुष्कपदेनोक्तानीत्याह-इतीति । चत्वारीमानि दर्शनावरणानि दर्शनस्योद्गममेव प्रतिरुन्धन्ति तस्मादर्शनचतुष्कं दर्शनलब्धिप्रतिबन्ध
कमित्याह-दर्शनेति । तल्लब्धिरेव यदा प्रतिरुद्धा तदा कुतस्तदुपयोग इति भावः॥ 10 अथ निद्रा लक्षयति
चैतन्याविस्पष्टतापादकं सुखप्रबोधयोग्यावस्थाजनकं कर्म निद्रा । चैतन्यस्याविस्पष्टतापादकं दुःखप्रबोध्यावस्थाहेतुः कर्म निद्रानिद्रा ॥
चैतन्येति । चैतन्यस्य याऽविस्पष्टता तमसाऽऽवृतघटवदवस्थान, निद्रोदयाद्धि जीवस्तमोऽवस्थायामवस्थितो भवति, तस्या आपादकं सुखेनानायासेन योऽयं प्रबोधः, नखच्छो15 टिकादिमात्रेणैवावबोधस्तद्योग्यावस्था निद्रावस्थेत्युच्यते तज्जनकं कर्मापि निद्रा कारणे
कार्योपचारादत एव न जहल्लिङ्गत्वं निद्राशब्दस्येति भावार्थः । चैतन्याविस्पष्टतापादकत्वे सति कर्मत्वस्य निद्रानिद्रायां सत्त्वात्तद्वारणाय सुखप्रबोधयोग्यावस्थाजनकत्वे सतीति । शुभकर्ममात्रस्य सामन्येनात्मनः सुखप्रबोधयोग्यावस्थाजनकत्वसंशयव्युदासाय चैतन्यस्यावि
स्पष्टतापादकत्वे सतीत्युक्तं न शुभकर्म चैतन्यस्याविस्पष्टतापादकमतो न दोषः । यद्यपि 20 पापकर्म चैतन्याविस्पष्टतापादकं, तथापि न निद्रातिरिक्तं तत्सुखप्रबोधयोग्यावस्थाजनकमतो न दोषः । अस्या उत्कृष्टा स्थितिः त्रिंशत्सागरोपमकोटीकोटयो वर्षसहस्रत्रितयश्चाबाधा, जघन्या तु सागरोपमस्य त्रयस्सप्तभागाः पल्योपमासंख्येयभागेन न्यूना अन्तर्मुहूर्तश्चाबाधा। निद्रानिद्रा लक्षयति–चैतन्यस्येति । चैतन्याविस्पष्टतापादकत्वे सति दुःखप्रबोधयो.
ग्यावस्थापादकत्वे च सति कर्मत्वं लक्षणार्थः, मिथ्यात्वमोहनीयादिकर्मणां दुःखप्रबोधयोग्या25 वस्थापादकत्वाञ्चैतन्यस्याविस्पष्टतापादकत्वाचावातिव्याप्तिवारणाय दुःखप्रबोध्यस्वापावस्थापा
दकत्वे सति कर्मत्वस्य विवक्षितत्वे चैतन्यस्याविस्पष्टतापादकत्वे सतीति पदं न देयमेव, अन्यपदप्रयोजनं पूर्ववत् । निद्रातोऽतिशायिनी निद्रेति मध्यमपदलोपिसमासेन निद्रानिद्रा निष्पन्नेति बोध्यम् । अस्याः स्थिती निद्रावत् ॥