________________
केवलदर्शनावरणम् ] न्यायप्रकाशसमलते हारिभद्रटीका । उभयविधव्याख्यानेन विषयविषयिसन्निपातानन्तरसमुद्भूतनिःशेषविशेषविमुखसद्विषयकं दर्शनमिति लभ्यते । विशुद्धनयेनेदम् । उपचारनयेन तु दृष्टिदर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यबोधः, यथा वनमिदमिति । एवं पूर्वपूर्वज्ञानमुत्तरोत्तरविशेषविषयकज्ञानापेक्षया दर्शनमवधेयम् । देशघातीदम् । अस्य स्थिती मतिज्ञानावरणवत् । अचक्षुर्दर्शनावरणस्वरूपमाह,तद्भिन्नेन्द्रियेणेति । चक्षुर्भिन्नेन्द्रियेणेत्यर्थः,चक्षुर्दर्शनावरणवारणाय 5 तद्भिन्नेति । मनसेति, मनोजन्येत्यर्थः, तथा च चक्षुर्भिन्नेन्द्रियमनोऽन्यतरजन्यसामान्यमात्रावगाहिबोधप्रतिरोधकत्वे सति कर्मत्वमचक्षुर्दर्शनावरणस्य लक्षणम् । कृत्यं पदानां स्पष्टमेव । देशघातीदम् । स्थिती अपि मतिज्ञानावरणवत् ॥
अवधिदर्शनावरणमाचष्टे
मूर्तद्रव्यविषयकप्रत्यक्षरूपसामान्यार्थग्रहणावरणहेतुः कर्मावधिद- 10 र्शनावरणम् ॥ __ मर्त्तद्रव्येति । अवधिज्ञानं हि मूर्तद्रव्यमात्रविषयकप्रत्यक्षरूपं तस्मिन् यत्सामान्यार्थग्रहणं तदावरणहेतुः कर्म अवधिदर्शनावरणमित्यर्थः । चक्षुर्दर्शनावरणादौ व्यभिचारवारणाय प्रत्यक्षान्तं, तस्य यावन्मूर्त्तमात्रविषयकदर्शनावरणरूपत्वाभावात् । अवधिज्ञानावरणादौ व्यभिचारवारणाय सामान्यार्थग्रहणेति । तथा चावधिज्ञानिनामवध्युपयोगे यत्सामान्यार्थग्र- 15 हणं तदावरणकारणं कर्मेति भावः । अत्र सर्वत्र दर्शनमनाकारं ज्ञानं साकारं बोध्यम् । स्थिती अपि मतिज्ञानावरणवत् , देशघातीदम् ॥
अथ केवलदर्शनावरणस्वरूपमाह- समस्तलोकालोकवत्तिमूर्तामूर्त्तद्रव्यविषयकगुणभूतविशेषकसामान्यरूपप्रत्यक्षप्रतिरोधकं कर्म केवलदर्शनावरणम् । इति दर्शनावरणचतु- 20 कम् , दर्शनलब्धिप्रतिबन्धकम् ॥
समस्तेति । सकलानि यानि लोकालोकवर्तीनि मूर्तामूर्त्तद्रव्याणि तद्विषयकं गौणीकृताः विशेषा यस्मिन् तादृशं यत्सामान्यविषयकं प्रत्यक्षं तदावरणकारणं कर्मेत्यर्थः । केवलदर्शन
१. नन्ववधिदर्शनिन उत्कृष्टतोऽप्येकवस्तुगतास्संख्येया असंख्येयाः पर्याया जघन्यतश्चत्वारः पर्याया उक्ताः पर्यायाश्च विशेषा एव, ते च ज्ञानस्यैव विषया न दर्शनस्य, तथा चावधिदर्शनस्यैवाभावेनावधिदर्शनावरणमेवाप्रसिद्धमिति चेत्सत्यम् , पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादिसामान्यमेव तथा विशिष्यते न पुनस्तेन एकान्तेन व्यतिरिच्यन्ते अतो मुख्यतया सामान्यं गौणतया विशेषा अपि दर्शनस्य विषय इति न दर्शनाप्रसिदिः ॥