________________
तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे सामग्रीसमवधानेऽपि यदुदयान भुङ्क्ते माल्यादीनि तत्कर्म भोगान्तराय इत्यर्थः । प्रयोज्यप्रयोजकभाबरक्षार्थमनुपहताङ्गस्यापि ससामग्रीकस्यापीति च पदम् । भोगपदन्तु दानान्तरायादावतिव्याप्तिवारणाय । स्थिती मतिज्ञानावरणवत्। भोगोपभोगयोः पर्यायताव्युदसनार्थ भोगशब्दार्थमाह-एकश इति एकवारं सकृदेवेति यावत् । तन्निदर्शनमाह-यथेति । कुसुमादयो 5 ह्येकदा भुक्ता न पुनर्भोगाय त एवोपयुज्यन्त इति सकृद्भोगसाधनत्वात्ते भोगा उच्यन्त इति
भावः । उपभोगान्तरायमाह-अनुपहताङ्गस्यापीत्यादिना । स्पष्टम् , स्थिती ज्ञानावरणवत् , उपभोगपदार्थमाह-अनेकश इति बहुवारमित्यर्थः पुनः पुनरिति भावः, निदर्शनमाह-वनितादय इति । अथ वीर्यान्तरायमाचष्टे-पीनाङ्गस्यापीति । हृष्टपुष्टाङ्गस्येत्यर्थः, निरामये वपुषि सत्यपि
कार्यकाले यौवनावस्थायामपि वर्तमानोऽल्पशक्तिर्भवति, साध्येऽपि प्रयोजने यदुदयान्न 10 प्रवर्तते तत्कर्म वीर्यान्तराय इत्यर्थः । लक्षणविचारः पूर्ववदेव । स्थिती मतिज्ञानावरणवत्।
अस्योदयाधिक्यं पृथिव्यप्तेजोवायुवनस्पतिषु द्वीन्द्रियादारभ्य चरमसमयछद्मस्थं यावत् तत्क्षयोपशमजनिततारतम्याद्वीर्यस्य वृद्धिः । उत्पन्न केवले भगवति तु सर्ववीर्यान्तरायक्षयः । एते पञ्चान्तराया विभागवाक्येऽन्तरायपञ्चकशब्देनोक्ता इत्याह-इतीति । एते पञ्चापि
देशघातिनः ॥ 15 अधुना चक्षुर्दर्शनावरणं वक्ति--
चक्षुषा सामान्यावगाहिबोधप्रतिरोधकं कर्म चक्षुर्दर्शनावरणम् । तद्भिन्नेन्द्रियेण मनसा च सामान्यावगाहिबोधप्रतिरोधकं कर्माचक्षुर्दर्शनावरणम् ॥
चक्षुषेति । चक्षुर्जन्यसामान्यमात्रविषयकबोधप्रतिरोधकत्वे सति कर्मत्वं चक्षुर्दर्शनाव20 रणस्य लक्षणम् । विशेष्यविशेषणकृत्यं पूर्ववत् । अचक्षुर्दर्शनावरणादौ व्यभिचारवारणाय
चक्षुर्जन्येति, मतिज्ञानावरणविशेषेऽतिव्याप्तिवारणाय सामान्यमात्रविषयकेति । मात्रपदमप्यत एव । दर्शनमुपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत्तदहर्जातबालदारकनयनोपलब्धिवद्वा व्युत्पन्नस्यापि । चक्षुषा दर्शनं चक्षुर्दर्शनमिति तत्त्वार्थवृत्तिः, चक्षुर्दर्शनावरणीय
क्षयोपशमतोऽवबोधव्यापृतिमात्रसारं, सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्म, मतिज्ञानावरणक्ष25 योपशमसम्भूतं, सामान्यमात्रग्राह्यवग्रहव्यङ्गयं स्कन्धावारोपयोगवच्चक्षुदर्शनमिति तत्त्वार्थ
१ दर्शनं हि पञ्चभिरिन्द्रियैर्भवति, चक्षुषोऽप्राप्यकारित्वेनेतरेन्द्रियाणाञ्च प्राप्यकारित्वेन चक्षुर्दर्शनमचक्षुदर्शनमितीन्द्रियाश्रयणाद्दर्शनस्य द्वैविध्यात्तदपेक्षया द्वैविध्यमावरणस्य, एकधा सङ्ग्रहासम्भवात् , मनस्त्वनिन्द्रियमतस्तदर्शनस्याचक्षुर्दर्शनेन सङ्ग्रहोऽतः प्रथमं चक्षुदर्शनावरणमाह ॥