________________
भोगान्तरायः ]
न्यायप्रकाशसमलङ्कृते
: 4:
सम्प्रति दानान्तरायमभिधत्ते —
सामग्रीसमवधानासमवधानयोस्सतोर्दा न सामर्थ्याभावप्रयोजकं कर्म
दानान्तरायः ॥
सामग्रीति । अन्तरं मध्यं दातृदेयादीनां तदेति ईयते वाऽनेनेत्यन्तरायः । यस्मिन्मयेsaस्थिते दात्रादेर्दानादिक्रियाऽभावो दानादीच्छाया बहिर्भावो वा सोऽन्तरायः । दान- 5 स्यान्तरायो दानान्तरायः । अन्तर्धीयतेऽनेनात्मनो दानादीत्यन्तरायः । अन्तर्धानमात्मनो दानादिपरिणामस्येति वाऽन्तरायः । दाने सामग्र्यः, देयद्रव्यं प्रतिग्राहको दानफलवेत्तृत्वमित्यादयस्तासां समवधानेऽसमवधाने वा यत्कर्मोदितं दानक्रियायास्तत्सामर्थ्यस्य वा प्रतिरोधकं तादृशं कर्म दानान्तराय उच्यत इत्यर्थः । सामग्रीसमवाधानासमवधानयोस्तोरिति पदमस्त्यस्य दानान्तरायभूतं कर्म दानसामर्थ्यादर्शनादित्यनुमाने क्वचिद्देयवस्त्वाद्यभावेन 10 दानसामर्थ्याभावसत्वेन व्याध्यसिद्ध्या तयोः प्रयोज्यप्रयोजकभाववैधुर्यशंका निरसनार्थमुपात्तम्, नत्वव्याह्यत्तिव्यात्यसम्भवदोषव्युदासाय, प्रसक्त्यभावात् । एवमग्रेऽपि भाव्यम् । विशेषणविशेष्यकृत्यं पूर्ववत्, लाभान्तरायादावतिप्रसङ्गवारणाय दानेति । मतिज्ञानावरणस्येवास्य स्थिती विज्ञेये ॥
लाभान्तरायमाह-
सम्यग्याचितेऽपि दातृसकाशादलाभप्रयोजकं कर्म लाभान्तरायः । अनुपहताङ्गस्यापि ससामग्रीकस्यापि भोगासामर्थ्यहेतुः कर्म भोगान्तरायः । एकशो भोग्यं भोगो यथा कुसुमादयः । अनुपहताङ्गस्यापि मसामग्री कस्याप्युपभोगासामर्थ्यहेतुः कर्मोपभोगान्तरायः । अनेकशो भोग्यमुपभोगो यथा वनितादयः । पीनाङ्गस्यापि कार्यकाले सामर्थ्यविरहप्रयो- 20 जकं कर्म वीर्यान्तरायः इत्यन्तरायपञ्चकम् ।
15
सम्यगिति । सर्वदाऽर्थिप्रार्थनानुगुणं दातुस्सकाशाद् यस्य कर्मण उदयप्रभावेण याचकेन सविनयं याचितेऽपि अल्पमपि न लभ्यते वस्तु तत्कर्म लाभान्तराय इत्यर्थः । अत्रापि सम्यग्याचितेति पदं प्रयोज्यप्रयोजकभावरक्षायै । अन्यथाऽस्यालाभः किञ्चित्प्रयोज्योऽलाभत्वादित्यत्र याचनसामर्थ्याभावस्य प्रयोजकत्वसिद्ध्या सिद्धसाधनत्वापत्तेर्लाभान्तरायस्यासिद्धि- 25 प्रसङ्गः स्यात् । दानान्तरायादावतिव्याप्तिवारणाय लाभेति । स्थिती च मतिज्ञानावरणवत् । भोगान्तरायं लक्षयति-- अनुपहताङ्गस्यापीति । निखिलाङ्गसम्भृतोऽपि माल्यचन्दनादि -