________________
तस्वन्यायधिभाकरे
[ पचमकिरणे मानानि द्रव्यमनांसि तद्गता ये भावाश्चिन्तानुकूलपरिणामास्तेषां ज्ञापकात्मकं यत्प्रत्यक्षज्ञानं तदावरणकारणं कर्मेत्यर्थः । अत्रापीन्द्रियानिन्द्रियपदं पारमार्थिकप्रत्यक्षज्ञापनायैव, अन्यथा मनःप्रणिधानहेतुकत्वादनिन्द्रियनिरपेक्षत्वकथनं पूर्वत्रात्र चासङ्गतं स्यात् संज्ञिपश्चेन्द्रियपदेन मनुष्यक्षेत्रवर्तिसंक्षिपञ्चेन्द्रिया ग्राह्यास्तेन तद्वहिर्वतिनां मनोगतभावज्ञानं मनःपर्यविनो 5 न भवतीति सूचितम् , संज्ञिपञ्चेन्द्रियमनोगतभावमात्रज्ञापकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं वाच्यं तेन न केवलज्ञानावरणेऽतिव्याप्तिरालोचितबाह्यार्थज्ञानन्त्वनुमानात् । यावदावज्ञापकेत्यादि तु न वाच्यम्, ऋजुमतिमनःपर्यवावरणेऽव्याप्तेः, देशघातीदम् । स्थिती मतिज्ञानावरणवत् ।।
अथ केवलज्ञानावरणमाह10 . मनइन्द्रियनिरपेक्षलोकालोकवतिसकलद्रव्यपर्यायप्रदर्शकप्रत्यक्षज्ञा. नावरणसाधनं कर्म केवलज्ञानावरणम् । इति ज्ञानावरणीयपश्चकम् ॥
मनइन्द्रियनिरपेक्षेति । अत्रापि मनइन्द्रियनिरपेक्षेति प्रत्यक्षविशेषणमव्यवहितात्मद्रव्यसमुत्थत्वेन पारमार्थिकप्रत्यक्षत्वसूचनपरम् । अशेषद्रव्यपर्यायग्राहिप्रत्यक्षज्ञानावरण.. हेतुकत्वे सति कर्मत्वं तु लक्षणम् । सर्वघातीदम् , उभयविधा स्थितिरपि मतिज्ञानावरण15 वत् । अत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा
मतिज्ञानादिव्यपदेश्याः पर्याया इति बहुविकल्पास्तत्र च मत्यादिज्ञानावरणादयोऽपि बहुविकल्पा भवन्तीति बोध्यम् । नन्वभव्यस्य मनःपर्यवज्ञानशक्तिः केवलप्राप्तिसामर्थ्यश्वास्ति न वा ? चेदस्ति, अभव्यत्वानुपपत्तिर्यदि नास्ति तर्हि कथं तत्र तदावरणसद्भावः, उभय
सामर्थ्याभावादिति चेन्नादेशवचनादुक्तं हि द्रव्यार्थादेशेन सतोस्तयोरावरणम् । पर्या20 यार्थिकनयेनासतोरपीति । न च द्रव्यार्थादेशेनाभव्यस्य तयोः सत्त्वे भव्यत्वापत्तिरिति
बाच्यम् । सम्यक्त्वादिपर्यायव्यक्तियोगार्हस्यैव भव्यत्वं तद्विपरीतस्याभव्यत्वमिति नियमात् न तु मनःपर्यवकेवलज्ञानसामर्थ्यवतो भव्यत्वं तद्विपरीतस्याभव्यत्वमिति नियम इति न कोऽपि दोषः । इमान्येव विभागवाक्ये पूर्वोक्ते ज्ञानावरणीयपश्चकपदेनोक्तानीति सूचयतीतीति ॥
१. ऋजुमतिमनःपर्यवज्ञानं हि घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनकतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिरूपम् , नात्र सुवर्णत्वपाटलिपुत्रकत्वादितत्तत्पर्यायविषयकत्वमिति न तदावरणेऽन्याप्तित्रिपदेन मनोभिन्नद्रव्यभावस्यैव व्यवच्छेदादिति भावः ॥