________________
मन: पर्यावरणम् ]
न्यायप्रकाशसमलङ्कृते ।
लापज्ञानावरणकारणत्वे सति कर्मत्वमित्युक्तौ यद्यपि न कोऽपि दोषस्तथापि साभिलापज्ञाने मतिज्ञानस्य हेतुत्वमात्रप्रदर्शनपरं मतिज्ञानसापेक्षेति पदम् । यद्वाऽक्षरादिश्रुतविशेषेषु येऽवप्रहादयः समुपजायन्ते ते चाश्रुतानुसारित्वे मतिज्ञानतया व्यपदिश्यन्ते श्रुतस्य मतिपूर्व - कत्वात्, यस्तु तेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानत्वेनेति सूचयितुं वा तत्पदम् । अस्योभयविधा स्थितिर्मतिज्ञानावरणवत्, देशघातीदम् ॥
5
अथावधिज्ञानावरणलक्षणमाचष्टे
: < :
इन्द्रियानिन्द्रियनिरपेक्षमूर्त्तद्रव्यविषयप्रत्यक्षज्ञानावरणनिदानं क
र्मावधिज्ञानावरणम् ॥
इन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्ष मूर्त्तद्रव्यविषयकप्रत्यक्षज्ञानावरणनिदानत्वे सति कर्मत्वमवधिज्ञानावरणस्य लक्षणम् । विशेषणविशेष्यपदकृत्यं प्राग्वत् । मतिज्ञानावरणा- 10 दावतिव्याप्तिवारणाय निरपेक्षान्तं प्रत्यक्ष विशेषणम्, तस्य घटादिरूपयत्किचिन्मूर्तद्रव्यविषयकप्रत्यक्षज्ञानावरणनिदानकर्मत्वात्, यदि प्रत्यक्षपदेन पारमार्थिक प्रत्यक्षग्रहणान्न दोष इत्युच्यते तर्हि तत्सूचनायैव तदुपादानं विज्ञेयम् । न च तथात्वेऽपि मनः पर्यवावरणादावतिव्याप्तिः, तस्य मूर्त्तमनोद्रव्यविषयकप्रत्यक्षज्ञानावरणकारणकर्मत्वात्, केवलज्ञानावरणस्यापि सकलमूर्त्तद्रव्यविषयक प्रत्यक्षज्ञानावरणकारणकर्मत्वाच्चेति वाच्यम्, यावन्मूर्त्तमात्र- 15 द्रव्यविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वस्य लक्षणार्थत्वात् । हीयमानकवर्धमानकानवस्थितावधिज्ञानावरणविशेषेष्वपि उत्कृष्टावधिग्रहणेन लक्षणं द्रव्यार्थिकप्राधान्याद्योजनीयम् । पर्यायनयप्राधान्यविवक्षायान्तु यावन्मूर्त्तद्रव्यमात्रविषयक प्रत्यक्षज्ञानवृत्तिज्ञानत्वसाक्षाद्व्याप्यधर्मवदावरणकारणत्वे सति कर्मत्वं लक्षणम्, तादृशो धर्मोऽवधित्वमेव, नत्वनुगामित्वादिकं, तेन विभङ्गज्ञानावरणादौ नाव्याप्तिः । देशघातीदम् । स्थिती मतिज्ञानावरणवत् ॥ 20 मनःपर्यवज्ञानावरणस्वरूपमाह
-
इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपञ्चेन्द्रिय मनोगतं भावज्ञापक प्रत्यक्षज्ञानावरणसाधनं कर्म मनः पर्यवावरणम् ॥
इन्द्रियानिन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्ष संज्ञिपञ्चेन्द्रिय मनोगतभावज्ञापकात्मकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणम् । मनुष्यक्षेत्रवर्त्तिसंज्ञिपञ्चेन्द्रियैः काययोगेन 25 गृहीतानि मनोयोग्यद्रव्याणि चिन्तनानुगुणं मनोयोगेन मनस्त्वेन परिणमय्याऽवलम्ब्य -
११