________________
: ८० :
तस्वन्यायविभाकरे
[ पञ्चमकिरण
देशेन हि सतां मत्यादीनामावरणं, पर्यायार्थादेशेन चासताम् । यदि त्वेकान्तेन सतामा - वरणं तदा क्षायोपशमिकत्वमेषां न स्यात्, अथैकान्तेनासतां तदापि तन्नोपपद्यते, असत्वात् सत एवावरणदर्शनाच्च, नभसो हि सतो मेघपटलादिनाऽऽवरणं दृश्यते, न च कुटीभूतानि मत्यादीनि कानिचित्सन्ति, येषामावरणान्मत्याद्यावरणानामावरणत्वं भवेत्, किन्तु मत्याद्यावरण5. सन्निधाने जीवो मत्यादिज्ञानपर्यायैर्नोत्पद्यत इत्यतो मत्याद्यावरणानामावरणत्वमिति । देशघातीदम्, अस्योत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटी कोट्यः । वर्षसहस्रत्रयवाबाधाकालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्मोदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद्भवति । तच्च कर्मबन्धकालादारभ्य त्रिषु वर्षसहस्रेष्यतीतेषूदयावलिकां प्रविशति, स खल्वबाधाकालो यतस्तत्कर्म नानुभूयते तावन्तं कालमिति । जघन्या तु अन्तर्मुहूर्त्तकालः । अबाधाप्यन्तर्मुहूर्त्तमेव ॥
10
श्रुतज्ञानावरणलक्षणमाह -
मतिज्ञानसापेक्षशब्दसंस्पृष्टार्थग्रहणावरणकारणं कर्म श्रुतज्ञानावरणम् ॥
मतिज्ञानेति । मतिज्ञानसापेक्षं मतिज्ञानापेक्षाकारणकं, शब्दो द्रव्यश्रुतमुपचारात् तत्संस्पृष्टो वाच्यवाचकभावेन सम्बद्धो योऽर्थस्तद्विषयकं ग्रहणं श्रुतानुसारि च तदावरण15 कारणं कर्मेत्यर्थः । तथा च मतिज्ञानसापेक्षश्रुतानुसारिसाभिलापज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणम् । विशेष्यविशेषणयोः कृत्यं पूर्ववत् । साभिलापज्ञानावरणकारणत्वे सति कर्मत्वस्य शब्दोल्लेखसहितेहादिज्ञानावरणकारणे मतिज्ञानावरणविशेषेऽतिव्याप्तिरिति श्रुतानुसारीति पदमीहादीनां श्रुतानुसारित्वाभावेन न तत्र दोषः, न च मतिज्ञानसापेक्ष साभिलापज्ञानावरणहेतुत्वे सति कर्मत्वमित्युक्ताविहादीनां मतिज्ञानासापेक्षत्वेन तत्र नातिव्याप्तिरिति20 वाच्यम्, अवग्रहादिरूपमतिज्ञान सापेक्षत्वादीहादेः । न चेहादीनां कथं न श्रुतानुसारित्वं संकेतकालादौ निशमितशब्दानुसरणमन्तरेण तत्र शब्दाभिलापासम्भवादिति वाच्यम्, व्यवहारकाले शब्दानुसरणं विनापि पूर्वं श्रुतपरिकर्मितमतीनां प्रवृत्तिदर्शनात्, नहि तदा
पूर्वगृहीतं संकेतं श्रुतं वाऽनुस्मृत्य प्रवर्त्ततेऽपि त्वभ्यासपाटवादेव, श्रुतानुसारिसाभि
१ मतिज्ञानस्य साभिलापानभिलापरूपत्वेऽपि व्यवहारकाले सङ्केतकालप्रवृत्तस्य श्रुतप्रन्थसम्बन्धिनो वा शब्दस्याननुस्मरणादश्रुतानुसारित्वं श्रुतज्ञाने तादृशशब्दानुस्मरणस्यावश्यकत्वेन श्रुतानुसारित्वमिति भावः ॥ न चैकेन्द्रियाणां सामम्यभावेन श्रुतानुसारित्वासम्भवाच्छ्रुतज्ञानाभावेन तदावरणमपि न स्यात्, इष्टञ्च तत्र तदुभयमिति वाच्यम्, भावश्रुतस्य तत्रापि स्वीकारेण दोषाभावात् न चैवं तत्रयाश्रुतज्ञानावरणेऽव्याप्तिरिति वाच्यम्, पर्यायनयेन श्रुतानुसारिसाभिलापज्ञानवृत्तिज्ञानत्वसाक्षाद्व्याप्यधर्मवदावरणकारणत्वे सति कर्मत्वस्य विवक्षया दोषाभावादिति भावः ॥