________________
-
10
मतिज्ञानावरणम् ]
म्यायप्रकाशसमलङ्कृते पौद्गलिकमेतदिति । एतद् दुःखोत्पत्तिप्रयोजकभूतं कर्मेदमित्यर्थः, पौद्गलिकं मूर्तमेवेत्यर्थः । तथा च मूर्तपापपर्यायत्वेऽपि दुःखस्य न मूर्त्तत्वं जीवस्यापि तत्र हेतुत्वात्, जीवो हि तत्र परिणामिकारणममूर्तश्चातस्तत्परिणामभूतं दुःखमप्यमूर्तमेवेति भावः, ननु कर्मबन्धे नियतो हेतुर्योगः, स च मनोवाक्काययोगात्मकश्शुभोऽशुभो वा भवेत् , तत्राशुभकर्मबन्धेऽशुभो योगो हेतुश्शुभकर्मबन्धे च शुभो योगो हेतुः, योगश्च मनोवाक्कायानां 5 परिस्पन्दो द्रव्ययोगरूपः, तथा चाध्यवसायविशिष्टेनात्मना परिस्पन्दद्वारा कर्म बध्यते, तस्मात् कर्मपरिस्पन्दयोर्निबन्धनं जीवाध्यवसायः, स च भावयोगरूपस्तस्य शुभत्वे भावपुण्यत्वमशुभत्वे भावपापत्वमित्याशयेनाह-इदमेवेति, पौद्गलिकपापकर्मेत्यर्थः, एवशब्दो भिन्नक्रमः, तथा च पौद्गलिकं पापकर्म द्रव्यपापमेवोच्यत इत्यर्थः, तेन क्रियात्मकद्रव्ययोगस्य पापत्वेऽपि न क्षतिः । अथ भावपापमाह-द्रव्यपापेति, स्पष्टम् ।।
तत्र वक्ष्यमाणप्राणातिपातादिपापबन्धहेतुभिर्योगव्यापारैरर्जितमशुभं कर्म व्यशीतिप्रकारैर्जीवेनानुभवनात्तत्प्रकारान् क्रमेण लक्षयितुं मतिज्ञानावरणं प्रथमं लक्षयति
इन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधाऽऽवरणकारणं कर्म मतिज्ञानावरणम् ॥
इन्द्रियेति । इन्द्रियं चक्षुरादिरनिन्द्रियं मनः, इन्द्रियेतरद्वा, तथा तदुभयमेभिर्जन्या ये 15 बोधा विशेषविषया अभिलापनिरपेक्षास्तेषामाच्छादनकारि यत्कर्म तन्मतिज्ञानावरणमित्यर्थः। यथेन्द्रियनिमित्तो बोधः, मनोरहितानामेकाक्षादीनां, अनिन्द्रियमनोनिमित्तः स्मृतिनिश्चितस्य धारणरूपः, इन्द्रियभिन्नमत्यज्ञानावरणीयक्षयोपशमजन्यमविभक्तरूपमोघज्ञानमनिन्द्रियनिमित्तबोधरूपम् , तथा जाग्रदवस्थाकालीनः चक्षुरादीन्द्रियमनोनिमित्तको रूपरसादिबोधः इन्द्रियानिन्द्रियनिमित्तकः, एवम्भूतानामभिलापनिरपेक्षाणां विशेषबोधात्मकानामावरणका- 20 रणं कर्मेति भावः । तथा चेन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधावरणकारणत्वे सति कर्मत्वं लक्षणार्थः । विशेष्यं कालादिवारणाय विशेषणं सातादिवारणाय । श्रुतज्ञानावरणीयेऽतिव्याप्तिवारणायाभिलापनिरपेक्षेति - । धारणाज्ञानावरणीयादावव्याप्तिवारणायानिन्द्रियेति । रूपचाक्षुषादिज्ञानावरणीयेऽव्याप्तिवारणायेन्द्रियेति, दर्शनावरणीयादावतिव्याप्तिवारणाय विशेषविषयकज्ञानवाचिबोधपदम् । अवधिज्ञानावरणीयादावतिव्याप्तिवारणाय जन्या- 25 न्तम् । नन्वावरणकर्मेदं सतां मत्यादीनामावारकमसतां वा ? नाद्यः प्राप्तात्मलाभत्वात् , सत्त्वेनैवावरणस्यानुपपत्तेः । नान्त्यः, तथा सति न स्यादेवावरणम् , नहि खरविषाणादिवदसदात्रियते इति चेन्न, आदेशवचनात् , कथञ्चित्सतामावरणं कथञ्चिच्चासतामिति । द्रव्या