________________
• तत्त्वन्यायविभाकरे
[ पञ्चमकिरणे लक्षण आत्मनः परिणामो दुःखमित्यर्थः । दुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणानुपादाने सातादौ विशेष्यानुपादाने कालादिसमवाये व्यभिचारादुभयम् । न चेदृशदुःखोत्पत्तिप्रयोजकत्वे कर्मत्वस्यासातवेदनीय एव सत्त्वान्मतिज्ञानावरणादावव्याप्तिः । उक्तञ्च
तत्त्वार्थसूत्रकृता-"दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसद्वेदनीयस्ये"ति, 5 ज्ञानदर्शनावरणादीनां प्रदोषनिह्नवादिजनकत्वेन न दुःखोत्पत्तिहेतुत्वमिति वाच्यम् । मतिज्ञाना
वरणादीनामपि परम्परया दुःखोत्पत्तिहेतुत्वात् साक्षाद्धि फलं प्रदोषनिह्नवादयः । ननु पुण्यमेकमेवास्तु न पापम् , न च दुःखोपपत्तिः कस्यापि न स्यादिति वाच्यम् । पुण्यस्य तारतम्येन तदुपपत्तेः । परां काष्ठामासादितस्य पुण्यस्यातिशयसुखं फलं, तस्यैव च तारतम्ययोगेनापकर्षात् सुखस्यापि हान्या तदपेक्षया तत्सुखस्य दुःखत्वम् ,एवमेव परमजघन्यस्य पुण्यलेशस्य नरकदुःखं फलमिति कस्यापि दोषस्याभावात्पापलक्षणप्रणयनमसंगतमिति चेन्मैवम् ,विनिगमनाविरहेणोभयस्यापि सिद्धेः । अनुभूयते हि सुखदुःखयो(जात्यम् , तच्च विजातीयमनुरूपं कारणमन्तरेण कथं हि भवेत् , तस्मादस्ति सुखस्यानुरूपं कारणं पुण्यं दुःखस्यानुरूपञ्च कारणं पापमिति । न च पुण्यपापे न सुखदुःखयोरनुरूपे कारणे, सुखदुःखयोरात्मपरिणामत्वात् पुण्यपापयोश्च
पौद्गलिकत्वादिति वाच्यम् , सर्वथा कार्यानुरूपत्वस्य कारणेऽनिष्टत्वात् कार्याननुरूपत्वस्य 15 वा, अपि तु सकलमपि वस्तु परस्परं तुल्यातुल्यरूपमेव । अत्र तु कार्यस्य सुखादेः कारण
पुण्यादिपर्यायत्वादनुरूपत्वं प्रोक्तम् । न च कथं सुखदुःखे पुण्यपापयोः पर्याय इति वाच्यम् , सुखं प्रति जीवपुण्यसंयोगस्य दुःखं प्रति जीवपापसंयोगस्य हेतुत्वेन च सुखदुःखयोः पुण्यपापपर्यायत्वात्। तथा च यथा सुखं शुभशिवकल्याणादिशब्दैर्व्यपदिश्यते तथा पुण्यमपि, यथा
दुःखश्चाशुभाशिवाकल्याणादिशब्दैर्व्यपदिश्यते तथा पापमपीति सिद्धं पुण्यातिरिक्तं पापमिति॥ 0 ननु किं दुःखस्यात्मपरिणामविशेषस्यामूर्त्तत्वेन पापमिदमप्यमूर्त स्यात्पापपर्यायत्वादुःखस्य, किंवा पापस्य बन्धकत्वेन मूर्त्तत्वात्तत्पर्यायभूतं दुःखमपि मूर्त स्यादित्याशङ्कायामाह
पौद्गलिकमेतत् । इदमेव द्रव्यपापमुच्यते । द्रव्यपापनामककर्मोत्पत्तिकारणात्मा शुभाध्यवसायो भावपापम् ॥ स्मिन् भवे गतय इवेति भावः । जीवेति, जीव एवादर्शनित्वाज्ञानित्वाचारित्रित्वादातृत्वसुखित्वदुःखित्वकारिण्य इति भावः ॥
१. विजायतीयकार्यदर्शनेनानुरूपेण विजातीयकारणेन भवितव्यमेवेत्याशयेनाहानुभूयत इति । २. नन्वेवं तर्हि कथमनुरूपविजातीयकारणानुमानमुच्यते, सर्वस्य सर्वेण तुल्यातुल्यरूपत्वादित्यत्राहात्रत्विति, तथा च सुखस्य पापापर्यायत्वाद्दुःखस्य पुण्यापर्यायत्वात्सुखदुःखे प्रति पापपुण्येऽननुरूपे, तयोः पुण्यपापपर्यायत्वाच ते प्रति तेऽनुरूपे इति भावः ॥ .