________________
पापनिरूपणम् ] न्यायप्रकाशसमलङ्कते ।
: ७७: ___ तत्र कर्मप्रकृतयः सामान्यतो द्विविधाः, घातिका अघातिकाश्चेति, ज्ञानदर्शनावरणमोहान्तराया घातिका; अपरा अघातिकाः । घातिकास्तु सर्वघातिका देशघातिकाश्चेति द्विविधाः। तत्र केवलदर्शनावरणनिद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिनिद्राप्रचलाकेवलज्ञानावरण. द्वादशकषायमिथ्यात्वाख्या विंशतिप्रकृतयस्सर्वघातिकाः । ज्ञानावरणचतुष्कदर्शनावरणत्रयान्तरायपश्चकसंज्वलननोकषायसंज्ञका देशघातिनः । एवं शरीराङ्गोपाङ्गनिर्माणसंघातसंस्थान- 5 संहननस्पर्शरसगन्धवर्णागुरुलघुपराघातोपघाताऽऽतपोद्योतप्रत्येकसाधारणस्थिरास्थिरशुभाशुभनामकर्माणि पुद्गलविपाकप्रदानि, आनुपूर्वी तु क्षेत्रविपाककरा, आयुर्भवधारणफलं, अवशिष्टाः प्रकृतयो जीवविपाकहेतवो बोध्याः । एवं नारकादिचतुर्गतिषु नरकगतौ तावत्सातपञ्चेन्द्रियवैक्रियतदङ्गोपाङ्गतैजसकार्मणवर्णचतुष्कागुरुलघुपराघातोच्छ्वासनिर्माणत्रसबादरपर्याप्तप्रत्येकस्थिरशुभनामानि कर्माणि उदयापेक्षया वर्तन्ते। तिर्यग्गतौ मनुष्यत्रिकासुरत्रिका- 10 ऽऽहारद्विकतीर्थकरनामकर्माणि विनाऽन्यानि वर्त्तन्ते । मनुजगतौ सुरत्रिकतिर्यगायुरातपनामानि पञ्चविहायान्यानि वर्त्तन्ते । देवगतौ तु मनुजत्रिकतिर्यगायुरौदारिकद्विकातपाहारकद्विकतीर्थकरनामानि वर्जयित्वा शेषाणि वर्तन्त इत्यादि विषयबाहुल्याभिप्रायेण दिगित्युक्तम् । दिङ्मात्रेणात्र पुण्यतत्त्वं व्यावर्णितं विस्तरस्तु प्रवचने द्रष्टव्यमिति भावः ॥ पुण्यतत्त्ववर्णनं निगमयति इतीति ॥
. . 15 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य । - तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पापनिरूपणं नाम
चतुर्थः किरणः ॥
अथ पञ्चमः किरणः
20 अथावसरसङ्गत्या पापतत्त्वं निरूपयितुमुपक्रमते
दुःखोत्पत्तिप्रयोजकं कर्म पापम् ॥ दुःखोत्पत्तीति। विरोधिद्रव्योपनिपातादभिमतवियोगानिष्टसंयोगानिष्टश्रवणादेः पीडा
१. केवलदर्शनज्ञानयोस्सर्वात्मनाऽऽवरणादनयोस्सर्वघातित्वं न तु दर्शनज्ञानमात्रावारकत्वात्. तथात्वेजीवस्याजीवत्वापत्तेः । २. स्वस्वविषयाणां सर्वात्मना घातकत्वासम्भवादिति भावः । अघातिकास्तु न ज्ञानादिगुण घातयन्ति, किन्तु सर्वदेशघातिनीभिस्सह वेद्यमानास्सर्वदेशघातिरसविपाकं दर्शयन्ति, यथा चौरैस्सहाचौरश्चौर इवावभासते ॥ ३. शरीरान्तर्गतपुद्गलेष्वात्मीयशक्तिप्रदर्शनात् । क्षेत्रेति, आकाश एव स्वशक्तिप्रदर्शिका, विग्रहगतावेवास्या उदयादिति भावः । भवेति, स्वयोग्यभव एवोदयीत्यर्थः, नान्य