________________
: ७६ :
तत्त्वन्यायविभाकरे
[ चतुर्थकिरणे
विंशतेः स्थानकानामाराधनात् सम्यक्त्वशालिना नृगतावेव तृतीये भवे निकाच्यते । केवलोत्पत्स्यनन्तरमस्योदयः, धर्मोपदेशना दिभिश्चैतदग्लान्या वेद्यत इति ॥
5
तदेवं द्विचत्वारिंशद्विधानि पुण्यकर्माण्यभिधायतद्धेतूना मध्यवसाय विशेषप्रभवसुपात्रदानादीनामपि पुण्यफलदत्वेन पुण्यरूपत्वमित्यभिमन्यमानः पुण्यस्य द्वैविध्यमादर्शयति
पुण्यमिदं कार्यकारणभेदेन द्विविधम् । एतानि कर्माणि कार्यरूपाणि जीवानुभवप्रकाराणि । एतेषां हेतवस्तु सुपात्रेभ्यो निरवद्यान्नवसतिवा - सोजलसंस्तारकादीनां प्रदानं, मनसश्शुभसंकल्पः, वाक्काययोश्शुभव्यापारः, जिनेश्वरप्रभृतीनां नमनादय इति दिक् । इति पुण्यनिरूपणम् ॥
पुण्यमिदमिति । पवित्रीकरण निदानं पुण्यमिदमित्यर्थः । एतानीति सातादिद्विचत्वा10 रिंशद्विधानि कर्मप्रकृतिग्रन्थानुसारीणि कर्माणि भूतव्रत्यनुकम्पादिफलकानि कार्यरूपाणि जीवैः सुखादिरूपेणानुभवनीयानीत्यर्थः । कारणात्मकपुण्यमाह - एतेषामिति । द्वाचत्वारिंशद्विधानां कर्मणामित्यर्थः । तव इति नमनादय इत्यप्रेतनेनान्वयः, भवन्तीति शेषः । सुपात्रेभ्य इति, सम्यग्दर्शनज्ञानचारित्रतपरसम्पन्नेभ्य इत्यर्थः, निरवद्यस्यान्नस्य सुरभिलवण स्निग्धमधुरत्वादिभिरच्युतस्य शालिव्रीहिगोधूमादिनिष्पन्नस्याशनस्य, वसतेर्वाससो जलस्य संस्तारकादीनाञ्च '15 प्रदानम् - - अनसूयाऽविषादादरपरमप्रीतिकुशलाभिप्रायदृष्टफलानपेक्षानिरुपधित्वा निदानत्वादिगुणयुतदातृकृता तिसर्गः, पुण्योपचयनिर्जराहेतुः, मनसः शुभसंकल्प इति, अनभिध्यादिधर्मशुक्लध्यानध्यायित्वादय इत्यर्थः, वाक्काययोः शुभव्यापार इति, अहिंसाऽस्तेयादयश्शुभः काययोग:, असावद्यादिवचनमागमविहितभाषणं च शुभवाग्योगः, योगैरेभिस्त्रिभिश्शुभकर्मण आस्रवो भवति । जिनेश्वरेति तीर्थपत्याचार्योपाध्यायादीनामित्यर्थः यद्यपि वस्तुतो मनोवाक्का20 यानां शुभव्यापारस्यैव द्विचत्वारिंशद्विधस्य पुण्यस्य कारणत्वं तथापि किञ्चिद्विस्तरेण सामान्यशेमुषकाणां बोधाय तस्यैव प्रपञ्च आदर्शितः । न च पुण्यस्यापि पापवत्पारतन्त्र्याविशेषात्तयोर्भेदोऽनुचित इति वाच्यम् इष्टानिष्टनिमित्तभेदात्तत्सिद्धेः । इष्टगतिजातिशरीरेन्द्रियविषयादीनां हि निर्वर्त्तकं पुण्यम् । अनिष्टगत्यादीनां निर्वर्त्तकं पापमिति वैचित्र्यं सुप्रसिद्धमेवेति ॥
करभवेऽपूर्वकरणस्य संख्येयभागाः, तत ऊर्ध्वं व्यवच्छेदः, केवलज्ञानोत्पत्तौ चाष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां परिषदि ग्लानि परिहारेण धर्मदेशनया श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया - चतुस्त्रिंशता देहसौगन्ध्यादिभिरतिशयैः पञ्चत्रिंशता बुद्धिवचनातिशयैस्तद्वेद्यत इति भावः ॥