________________
तीर्थकरनाम ]
न्यायप्रकाशसमलङ्कृते त्युत्कृष्टाबाधात्मकः प्रथमो भङ्गः। स एव जघन्यमध्यमायुष्को वा मनुजोऽन्तर्मुहूर्तावशिष्ट आयुष्युत्कृष्टस्थितिकमागामिदेवभवायुषं बध्नाति यदा तदोत्कृष्टस्थितिजघन्याबाधात्मको द्वितीयः । पूर्वकोट्यायुष्को मनुजो यदा पूर्वकोटित्रिभागावशेष आयुषि दशसहस्रप्रमाणं जघन्यस्थितिकं देवायुर्बध्नाति तदा देवायुरपेक्षया जघन्यस्थित्युत्कृष्टाबाधात्मकस्तृतीयः । जघन्यायुष्कोऽन्तर्मुहूर्तावशेष आयुषि दशवर्षसहस्रात्मकं यदा देवायुर्बध्नाति तदा जघ- 5 न्यस्थितिजघन्याबाधात्मको भङ्गश्चतुर्थ इति ॥
अथ मनुजायुराह
मनुजभवनिवासनिदानायुः प्रापकं कर्म मनुजायुः । तिर्यग्भवनिवासहेत्वायुःप्राप्तिजनकं कर्म तिर्यगायुः ॥
मनुजभवेति । स्पष्टं लक्षणम् , त्रिपल्योपमा परा स्थितिः । जघन्या तु क्षुल्लकभवप्रमाणा, 10 अबाधाऽन्तर्मुहूर्तकालः । तिर्यगायुराह–तिर्यगिति, लक्षणं स्पष्टम् । यावत्स्वायुःपरिसमाप्तिं कदापि मृत्युसमीहाभावादिदमाहादजनकत्वाच्छुभम् । तिर्यग्गतितिर्यगानुपूव्यौँ तु संक्लिष्टाध्यवसायैरात्मसाक्रियमाणत्वेनाशुभत्वात्पापात्मके इति । परा स्थितिः त्रिपल्योपमा, अपरा चान्तर्मुहूर्तम् ॥ तीर्थकरनामकर्माहअष्टमहाप्रातिहार्यायतिशयप्रादुर्भवननिमित्तं कर्म तीर्थकरनाम ॥
अष्टेति । ' अशोकवृक्षः सुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासनश्च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणा'मिति श्लोकेऽष्टौ प्रातिहा-णि प्रतिपादितानि प्राह्याणि । अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भावनिमित्तत्त्वे सति कर्मत्वं लक्षणम् । विशिष्टर्द्धियुक्तानां चक्रधरत्वादीनामुच्चैोत्रेऽतिव्याप्तिवारणायाष्टविधप्रातिहार्यादीति । गणधरत्वन्तु श्रुतज्ञानावरण- 20 क्षयोपशमनिमित्तत्वान्न तीर्थकरनामवत् गणधरनामकर्मोपसंख्यानापत्तिः । न च तीर्थकरस्यापि श्रुतज्ञानावरणक्षयोपशमो वा चक्रधरादीनामिवोच्चैर्गोत्रविशेषो वा निमित्तमस्त्विति वाच्यं तीर्थप्रवर्तनफलत्वेन तीर्थकरनामकर्मणोऽभ्युपगमादिति। अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः। अबाधान्तर्मुहूर्तमेवमेव जघन्या स्थितिरपि किञ्चिन्न्यूना ॥ एतत्कर्म
-
15
१. एतच्चकर्म मनुजगतिस्थ एव पुरुषः स्त्री नपुंसको वा तीर्थकरभवात्पृष्टतस्तृतीयभवं प्राप्य बध्नाति, बन्धोऽयं निकाचनारूपबन्धापेक्षया, अनिकाचनारूपस्तु तृतीयभवात्प्रागपि, जघन्यतोऽप्यन्तस्सागरोपमकोटीकोटिप्रमाणत्वात् . तत्र निकाचितमवन्ध्यफलमितरत्तभयथापि । निकाचनारूपश्च तृतीयभवादारभ्य यावत्ती