________________
:०४: तस्वन्यायविभाकरे
[ पष्ठकिरणे योदयाच्चित्तोद्वेगोऽरतिस्तत्फला विषयेषु मोहनीयोदयाद्या चित्ताभिरतिः साऽरतिरतिः, परपरिवादः परनिन्दा, मायया सह मृषा मायामृषी, मिथ्यात्वशल्यश्च, अनेकधा प्राणिगणशलनाच्छल्यं, मिथ्यात्वं तत्त्वाश्रद्धानं, तदेव शल्यं । एते द्वयशीतिविधपापकर्मणां हेतवः ।
इति पापतत्त्वमवसितमित्याहेतीति ॥ 5 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य . तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पापतत्त्वनिरूपणो
नाम पञ्चमः किरणः ॥
अथ षष्ठः किरणः ॥ 10 ननु निरूपितं पुण्यपापरूपं कर्म, सम्प्रति तदनन्तरमुदिष्ट आस्रवो निरूपणीयः । तत्र
स किं स्वरूपो जीवो वा तत्पर्यायो वा अजीवो वा तत्पर्यायो वा स्यात् , चेतनाचेतनात्मकपदार्थद्वयातिरिक्तस्याभावात् , जीवतत्पर्यायान्यतररूपत्वे जीव एव, अजीवतत्पर्यायान्यतररूपत्वे चाजीव एव भवेदित्याशङ्कायां लक्षणं निरूपयन् पदार्थं सूचयति
शुभाशुभकर्मग्रहणहेतुराश्रवः ॥ 15 शुभाशुभेति । शुभाशुभरूपे ये कर्मणी पुण्यपापात्मकेऽष्टविधे, तयोर्यग्रहणमुपादानं
बन्धात्मकं तत्र हेतुः साक्षात्कारणं शुभाशुभाध्यवसायविशेषः परम्पराकारणश्चेन्द्रियकषायाव्रतयोगक्रियाः, द्विविधो हेतुरास्रवपदार्थ इत्यर्थः। तथा च प्रतिक्षणं कर्मग्रहणव्यापृतस्वभावत्वाद्भवस्थजीवस्यावश्यं केनचिद्धेतुना भाव्यं, निर्हेतुकस्य कार्यस्यानुत्पत्तेः । तथा च
सति यस्तत्रं हेतुः स आश्रवः, स चाहदर्चनवन्दनसर्वविरतितपःस्वाध्यायवीतरागप्रणि20 धानधर्मध्यानादिप्रशस्तानुष्ठानात् प्राणातिपातमृषावादकषायाद्यप्रशस्तकर्मभ्यश्च भवति, भवति
हि यथाक्रमं सत्कृत्यासत्कृत्याभ्यामसतोरपि शुभाशुभाध्यवसायादिरूपयोः शुभाशुभाश्रवयोराविर्भावः, सतोश्च वृद्धिरिति भावार्थः, ननु शुभाशुभकर्मणामादानात्मकस्य बन्धस्य कारणमाश्रव इत्यायातं, तच्च न संभवति, बन्धाभावे आश्रवासंभवादन्यथा मुक्तस्यापि तदापत्तेः ।
यद्यास्रवमन्तरेणापि बन्ध इष्यते तर्हि कथमाश्रवस्य बन्धहेतुत्वं तदभावेऽपि जायमानं प्रति । तस्य हेतुत्वासम्भवादिति चेन्मैवम् , उभयोरप्यन्योऽन्य कार्यकारणभावाभ्युपगमात्, न च तर्हि बन्धाभावे नाश्रवस्तदभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति वाच्यम् , बन्धा
१. मायामृषावादोऽयं तृतीयकषायद्वितीयाश्रवसंयोगरूपः उपलक्षणोऽयमेवंविधसर्वसंयोगानाम् । वेषान्तरभाषान्तरकरणेन परवञ्चनरूपोवा बोध्यः ॥