________________
: ६८ :
तन्यायविभाकरे
[ चतुर्थकिरणे
स्त्वप्रशस्ताः । शरीरस्यागुरुलघुपरिणामप्रयोजकं कर्म अगुरुलघुनाम | सर्वेषां जीवानामेतत् । परत्रासप्रज्ञाप्रहननादिप्रयोजकं कर्म पराघातनाम । उच्छ्वासनिःश्वासप्राप्तिप्रयोजकं कर्मोच्छ्वासनाम ॥
1
शरीरवृत्तीति । स्वशरीरवृत्तीत्यर्थः । वर्ण्यतेऽलङ्कियते गुणवत्क्रियते शरीराद्यनेनेति वर्णः 5 शुक्लादिः । यदुदयादौदारिकादिशरीरेषु आह्लादजनकस्य नेत्रानन्दकरस्य वर्णस्योत्पत्तिस्तत्प्रशस्त वर्णनामेत्यर्थः । अप्रशस्तवर्णनामकर्मण्यतिव्याप्तिनिरा सायाह्लादजनकेति, प्रशस्तगन्धनामादिकर्मण्यतिव्याप्तिव्युदासाय वर्णेति । असंभववारणाय शरीरवृत्तीति । अस्य पञ्चेन्द्रियवत्परा जघन्या च स्थितिर्विज्ञेया । प्रशस्तगन्धनामाह - शरीरवृत्तीति, गन्ध्यते आघ्रायत इति गन्धः, लक्षणपदकृत्यं स्थितिश्च प्रशस्तवर्णवद्बोध्या । प्रशस्तरसनामाह--- शरीरे10 विति । कृत्यं स्थितिश्च प्रशस्तवर्णवदेव । प्रशस्तस्पर्शनामाह – शरीरवृत्तीति इदमपि प्रशस्तवर्णवद्बोध्यम्, इमानीति, प्रशस्तवर्णगन्धरसस्पर्शनामकर्माणीत्यर्थः, प्रशस्तेति, विभागवा - क्यस्थेत्यादिः । वर्णादयः कतिविधास्तेषु के प्रशस्ता इत्याशंकायामाह - तत्रेति । स्फटिकादाविव शुक्लः, हिङ्गुलकादाविव रक्तः, हरिद्रादाविव पीतः, प्रियङ्गुपर्णादाविव नीलः, कज्जलादाविव कृष्णो वर्णो भाव्यः । आद्यास्त्रय इति शुक्लरक्तपीतवर्णा इत्यर्थः, प्रशस्ता इति प्रायश 15 आशयवशात्प्राणिनां वल्लभास्सन्तस्सुखात्मकात्मपरिणामोपकारिण इति भावः । अन्त्याविति, नीलकृष्णावित्यर्थः, अप्रशस्ताविति । अनिष्टौ द्वेष्यौ सन्तौ स्वाशयापेक्षया दुःखात्मकात्मपरिणामोपकारिणाविति भावः । गन्धभेदमाह — सुरभीति । श्रीखण्डादाविव सुरभिः, लशुनादाविव दुरभिः । आद्य इति, सुरभिरित्यर्थः, शस्त इति, सौमुख्यकारित्वादिति भावः । अन्त्य इति दुरभिरित्यर्थः, अशस्त इति वैमुख्यकारित्वादिति भावः । रसभेदमाह— 20 रस इति । अपक्ककपित्थादाविव कषायः, आम्लवेतसादाविवाम्लः शर्करादाविव मधुरः, कोशातक्यादाविव तिक्तः, शुण्ठ्यादाविव कटुः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । आद्या इति कषायाम्लमधुरा इत्यर्थः । अन्त्याविति तिक्तकटू इत्यर्थः । स्पर्शभेदानाह - स्पर्शोऽपीति । हंसरूतादाविव मृदु:, अर्कतूलादाविव लघुः घृतादाविव स्निग्धः, वह्नादाविवोष्णः, पाषाणादाविव कठिनः, वज्रादाविव गुरुः, भस्मादाविव रूक्षः, मृणाला25 दाविव शीतः । आद्या इति मृदुलघुस्निग्धोष्णा इत्यर्थः, अन्त्या इति कठिनगुरुरूक्षशीता इत्यर्थः । अथागुरुलघुनामकर्मस्वरूप माह-- शरीरस्येति । चत्वारो हि परिणामाः पुद्गलानां गुरुत्वलघुत्वगुरुलघुत्वागुरुलघुत्वभेदात् यस्य कर्मण उदद्यात्सर्वप्राणिनां शरीराणि स्वस्वापेक्षया नैकान्तेन लघूनि तथात्वे वायुना विक्षिप्यमाणानां धारणासंभवात् न चैकान्तेन गुरूणि,