________________
वर्णादिनामकर्माणि ]
न्यायप्रकाशसमलङ्कृते ।
: ६७ :
नामकर्मेदं षड़िधसंहननेषु प्राथमिकं तदेव च विभागवाक्योदितादिम संहननशब्देन वाच्यमित्याहेदमिति । संहननं षड्विधमपि औदारिकशरीर एव नान्येषु तेषामस्थ्यादिरहितत्वात् ॥
अथ षड्विधेषु शरीराकृतिविशेषरूप संस्थानेषु समचतुरस्त्र संस्थानस्यादिमस्य प्रयोजकं नामकर्म वक्तुमादौ संस्थानपदार्थमाह
आकारविशेषस्संस्थानम् । सामुद्रिक लक्षणलक्षितचतुर्दिग्भागोपल - 5 क्षितशरीरावयव परिमाणसादृश्यप्रयोजकं कर्म समचतुरस्रसंस्थानम् । इदमादिमसंस्थानम् | तीर्थकरास्सर्वे सुराचैतत्संस्थान भाजः ॥
आकारविशेष इति । अवयवरचनात्मिका शरीराकृतिरित्यर्थः । समचतुरस्रसंस्थाननामकर्माह — सामुद्रिकेति । समाः शरीरशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यः चतस्रोऽस्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तच्छरीरं समचतुरस्रं भवति, तथा च सामुद्रि- 10 कलक्षणलक्षितचतुर्दिग्भागोपलक्षितशरीरावयव परिमाणसादृश्यप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । यस्य कर्मण उदयात् औदारिकादिशरीराकृतिरूर्ध्वाधोमध्येषु समप्रविभागेनान्यूनानधिकमानोन्मानप्रमाणेनाविकलावयवतया स्वाङ्गलाष्टशतोच्छ्रायेण च युक्ता भवति तत्समचतुरस्रनामकर्मेत्यर्थः । चतुर्दिग्भागोपलक्षितेतिपदं न्यग्रोधपरिमण्डलादावतिप्रसङ्गभङ्गार्थम् । इदमिति, समचतुरस्रसंस्थानं विभागवाक्योदितादिमसंस्थान पदवाच्यमित्यर्थः । संस्थान - 15 मिदं केषामित्यत्राह — तीर्थकरा इति । च शब्दोऽनुक्तसमुच्चयार्थः, तेन गणधरादिसङ्ग्रहः । अस्योत्कृष्टा स्थितिर्देवगतिवज्जघन्या तु मनुजगतिवत् ॥
प्रशस्तवर्णादिनामकर्मणो लक्षणमाह
शरीरवृत्त्याह्लादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनाम | शरीरवृत्त्याह्लादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाह्ना- 20 दजनकर सोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्त्याह्लादजनकरूपशोत्पादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशब्दवाच्यानि । तत्र शुक्लरक्तपीतनीलकृष्णाः पञ्च वर्णाः । आद्यास्त्रयः प्रशस्ताः । अन्त्यौ द्वावप्रशस्तौ । सुरभ्यसुरभिभेदेन गन्धो द्विविधः । आद्यश्शस्तः, अन्त्योऽशस्तः । रसः कषायाम्लमधुरतिक्तकटुरूपेण 25 पश्चविधः। आद्यास्त्रयश्शुभाः अन्त्यावशुभौ । स्पर्शोऽपि मृदुलघुस्निग्धोo कठिनगुरुरूक्ष शीतभेदादष्टविधः । आद्याश्चत्वारः प्रशस्ताः, अन्त्या