________________
तस्वन्यायविभाकरे
[चतुर्यकिरणे ननु शरीरत्वाविशेषात्तैजसकार्मणयोर्न कथमङ्गोपाङ्गानीत्यत्राह-तैजसकार्मणयोस्त्विति । आत्मप्रदेशतुल्यसंस्थानत्वादिति जीवप्रदेशसंस्थानानुरोधित्वादित्यर्थः । प्रयोजनाभावात्प्रमाणाभावाच्चान्तर्गतिं विहायान्यत्रतयोस्स्वातंत्र्येणावर्त्तमानत्वादिति भावः । नन्वौदारिकशरीरभाजां पृथिव्यप्तेजोवायुवनस्पतीनामप्यङ्गोपाङ्गानि सन्ति नवेत्याशङ्कायामाह-एवमेकेन्द्रि5 यशरीराणामपीति । यथा तैजसकार्मणयोर्नाङ्गोपाङ्गानि तथा एकेन्द्रियाणां पृथिव्यादीनां यानि शरीराणि तेषामपि नाङ्गोपाङ्गानि भवन्तीति भावः । ननु कथं वनस्पतीनां शरीराणामङ्गोपाङ्गरहितत्वं मूलस्कन्धशाखाप्रशाखात्वपत्रपुष्पफलादीनामवयवत्वादित्याशङ्कायामाहवनस्पत्यादिष्विति । आदिपदेन वायुतेजोजलपृथिवीनां ग्रहणम् , पश्चानुपूर्व्या निर्देशः,
वनस्पतौ मूलादिष्ववयवत्वस्य लोकप्रसिद्धतया तस्यैव प्रथममुपन्यासात् । प्रत्येकनामकर्म10 प्रभावाच्छाखादीनां भिन्नजीवशरीरत्वमेव न त्वङ्गोपाङ्गत्वं वृक्षस्येति भावः । बन्धनसंघातनामकर्मणोस्तु शरीरविषयत्वादेव शरीरनामकर्मान्तर्भूततया नात्र तयोः पृथगुपन्यासः कृतः॥
अथ शारीरिकपुद्गलानां गृहीतानां गृह्यमाणानाञ्च परस्परसंश्लेषे सति अन्योन्यसन्निधानेन च व्यवस्थापिते सति संहन्यमानपुद्गलानां संहननमुपकारि भवति तस्मात्संहननस्वरूपमाह
अस्थिरचनाविशेषः संहननम् । उभयतो मर्कटबन्धबद्धयोरस्थ्नोः 15 पट्टाकृतिनाऽपराऽस्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकात्मकान्यास्थिविशिष्टत्वप्रयोजकं कमें वज्रर्षभनाराचम् । इदमादिमसंहननम् ।।
अस्थीति । अस्थ्नां बन्धविशेष इति भावार्थः । वर्षभनाराचलक्षणमाह-उभयत इति । अत्र वज्रशब्दः कीलिकावचनः, ऋषभशब्दः परिवेष्टनपट्टवचनः, नाराचशब्दस्तु
उभयपाविच्छेदेन मर्कटबन्धनवचनः । तथा च पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपावि20 च्छेद्यमर्कटबन्धबद्धास्थिद्वयोपरि तदस्थित्रयभेदिकीलिकाकल्पान्यास्थिविशिष्टत्वप्रयोजकत्वे
सति कर्मत्वं लक्षणार्थः, विशेषणविशेष्ययोः फलं पूर्ववत् । कर्मप्रकृतिग्रन्थेषूक्ते वज्रनाराचकर्मण्यतिव्याप्तिवारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितेत्युक्तम् । ऋषभनाराचकर्मण्यतिव्याप्तिवारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपाविच्छिन्नमर्कटबन्धबद्धास्थिद्वयप्रयोजककर्मत्वमनुक्त्वा तदस्थित्रयभेदीत्यायुक्तम् , अस्योत्कृष्टा स्थितिर्देवगतिवजघन्या तु मनुजगतिवत् ।
१ जीवप्रदेशानुरोधि तैजसं शरीरं, ततो यदेव तस्यां तस्यां योनौ औदारिकशरीरानुरोधेन वैक्रियशरीरानुरोधेन च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्यापि, एवं कार्मणस्यापि भाव्यम् ॥ २ वृक्षादौ मूलादिषु प्रत्येकमसंख्येया अपि जीवाः परस्परं विभिन्नशरीराः प्रबलरागद्वेषोपचितप्रत्येकनामकर्मपुलोदयतः परस्परं संहताः, श्लेषद्रव्यसंपर्कमाहात्म्यात् परस्परविमिश्रसर्षपतिरिवेत्याशयेनाह प्रत्येकेति ॥