________________
पारीरनामकर्म ]
न्यायप्रकाश ष्टत्वमङ्गानां भाव्यम् । उपाङ्गान्याह-उपाङ्गानीति । तदवयवाङ्गुल्यादीनीति, तेषामष्टानामवयवान्यङ्गुल्यादीन्युपाङ्गानीत्यर्थः । अङ्गुलयो बाहुपादयोरुपाङ्गभूताः, आदिपदेन शिरआदीनां ललाटतालुनयनकर्णादय उपाङ्गतया ग्राह्याः । यद्यप्यङ्गनिदर्शनभूतशिरसोऽनुगुणमुपाङ्गतया तदवयवललाटादीनामेव कथनं युक्तं तथापि तथोक्तावेकस्यैव शिरस उपाङ्गं दर्शितं भवेत् , अङ्गुल्यादीनीत्युक्तौ तु पाणिपादयोरुभयोरेकपदेन दर्शितं स्यादिति ग्रन्थला- 5 घवैषिणा मया तथैवोक्तम् , तत्पदेनाष्टाङ्गानां बुद्धिस्थानां परामर्शसम्भवात् । तथाङ्गुल्यादीनामप्यवयवभूतानि पर्वरेखादीन्यङ्गोपाङ्गानि, एवञ्चाङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्व एकपदशेषेऽङ्गोपाङ्गानि, यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकाङ्गोपाङ्गनामेत्यर्थः, औदारिकशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणविशेष्यपदकृत्यं पूर्ववत् , वैक्रियाङ्गोपाङ्गनामकर्मादाव- 10 तिप्रसक्तिविच्छेदायौदारिकशरीरसम्बन्धीति, औदारिकशरीरसम्बन्धिकर्मत्वमित्युक्तौ कार्मणशरीरादावतिप्रसङ्गस्तस्यापि तत्कारणत्वेन तत्सम्बन्धिकर्मत्वात् । औदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिवर्णादीनामौदारिकशरीरसम्बन्धित्वादतोऽङ्गोपाङ्गेति पदम् । औदारिकशरीरवदस्य परा जघन्या च स्थितिर्बोध्या ।। वैक्रियाङ्गोपाङ्गलक्षणमाह
15 तादृशं वैक्रियशरीरसम्बन्धि कर्म वैक्रियाङ्गोपाङ्गनाम। तादृशमेवाssहारकशरीरसम्बन्धि कर्माऽऽहारकाङ्गोपाङ्गनाम । इमान्यादिमत्रितनूपागानि । तैजसकार्मणयोस्त्वात्मप्रदेशतुल्यसंस्थानत्वान्न भवन्त्यङ्गोपाङ्गानि। एवमेकेन्द्रियशरीराणामप्यङ्गोपाङ्गानि न भवन्ति वनस्पत्यादिषु शाखादी. नामङ्गत्वादिव्यवहारो न वास्तविकः, किन्तु भिन्नजीवस्य शरीराण्येव ते ।। 20 ___तादृशमिति । अङ्गोपाङ्गनिमित्तमित्यार्थः । वैक्रियशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः। निष्पत्तिपदानुपादाने पर्याप्तनामकर्मण्यारब्धाङ्गसमापकेऽ तिव्याप्तिरतस्तदुपादानं, अन्यपदप्रयोजनं पूर्ववद्भाव्यम् । परा जघन्या चास्य स्थितिक्रियशरीरवत् । अथाऽऽहारकाङ्गोपाङ्गनामकर्माभिधत्ते-तादृशमेवेति । अत्रापि आहारकशरीरसम्बन्ध्यङ्गोपाङ्गोत्पत्तिनिदानत्वे सति कर्मत्वं लक्षणं कृत्यञ्च पूर्ववदेव । उभयविधा स्थितिर- 25 स्याप्याऽऽहारकशरीरवदेव भाव्या । विभागवाक्येऽमून्येवादिमत्रितनूपाङ्गशब्देनोक्तानीत्याहइमानीति । आदिमा यास्तिस्रस्तनवस्तासामुपाङ्गानि अङ्गोपाङ्गाभिधानि इमान्येवेत्यर्थः ।