________________
उच्छ्वासनामकर्म ]
न्यायप्रकाशसमलङ्कृते
: ६९ :
वोढुमशक्यत्वात्, किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तद्गुरुलघुनामकर्मेत्यर्थः । यदूतिर्यग्वा प्रक्षिप्तमपि पुनर्निसर्गादधो निपतति तद्गुरुद्रव्यं यथा लेष्ट्वादि । यतु निसर्गत एवोर्ध्वगतिस्वभावं द्रव्यं तल्लघु यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्द्रव्यं गुरुलघु यथा वाय्वादि । यत्पुनरूर्ध्वाधस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति सर्वत्र वा गच्छति तद्गुरुलघु 5 यथा व्योमपरमाण्वादि । व्यावहारिकनयमिदं । निश्चयतस्तु एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्ट्वादेः परप्रयोगादूर्ध्वादिगमनदर्शनात्, नैकान्तेन लघुस्वभावं, अतिलघोरपि वाय्वादेः करताडनादिनाऽघोगमनादिदर्शनात् । अतो नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । किन्तु यत्किमप्यत्र लोके औदारिकवर्गणादिकं भूभूधरादिकं वा बादरं वस्तु तत्सर्वं गुरुलघु, शेषं तु भाषाऽऽनपानमनोवर्गणादिकं परमाणुद्र्यणुकव्योमादिक 10 सर्वं वस्त्वगुरुलध्विति बोध्यम् । एवञ्च निश्चयनयेन कस्यापि शरीरस्य लघुत्वाभावात् गुरुत्वाभावाच्च गुरुलघुत्वमेव कार्मणातिरिक्तस्य, तत्रागुरुलघुत्वप्रयोजकं कर्म सर्वशरीरिणामित्याशयेनाह—सर्वेषामिति । एतदिति, अगुरुलघुनामकर्मेत्यर्थः, भवतीति शेषः । अत्रागुरुलघुपदेन लघुगुरुपरिणामद्वयस्यैव निरासो बोध्यः, न तु अगुरुलघुनामपरिणामस्यैकस्य ग्रहणम् । व्यवहारनयापेक्षया त्वन्योऽन्यापेक्षया शरीराणि लघूनि गुरूणि 15 अगुरुलघून्यपि भवन्तीति विज्ञेयम् । अस्य पश्चेन्द्रियवदेवोत्कृष्टा जघन्या च स्थितिर्भाव्या । अथ पराघातस्वरूपं निरूपयति - परत्रासेति । यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठ - वेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिघातश्च विधत्ते तत्पराघातनामेत्यर्थः । कृत्यं विशेषणविशेष्ययोः पूर्ववत् । स्थिती चोभयविधे पञ्चेन्द्रियवत् । उच्छ्वासनामकर्म निरूपयति उल्वासेति । ऊर्ध्वगामी वायुरुच्छ्वासः, अधोगतिमान् 20 वायुर्निश्वासः प्राणापानापरनामानावेतौ तौ चानन्तप्रदेशस्कन्ध पुद्गल परिणामजन्यौ, तयोः प्राप्तिर्लब्धिः तत्प्रयोजकं कर्म उच्छ्वासनामकर्म । उच्छ्वासनिःश्वासग्रहणमोक्षणलब्धेरुच्छ्छासनामकर्मसाध्यत्वादौदयिकीनामपि लब्धीनां सम्भवात् तादृशलब्धेर्व्यापारण एव च श्वासोच्छ्वासपर्याप्तेर्हेतुत्वादिति भावः । उच्छ्वासनिःश्वासलब्धिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । पदकृत्यं स्पष्टमु, उभयविधा स्थितिः पश्चेन्द्रियवत् ॥
१ निश्चयनये औदारिकवैक्रियाहारकतैजसद्रव्याणि बादररूपत्वाद्गुरुलघूनि, कार्मणमनोभाषादिद्रव्याणि त्वगुरुलघूनि, बादरनामकर्मोदयवर्तिजीवानां शरीराणि बादराण्यन्यानि गुरुलघूनि, सूक्ष्मनामकर्मोदयवर्त्तिजीवशरीराणि सूक्ष्मपरिणतानीतराण्यगुरुलघूनि । तथा च गुरुलघुकं शरीरं प्रतीत्य नारकादयो गुरुलघुकाः, जीवं कार्मणञ्च प्रतीत्यागुरुलघुका इति ॥
25